राजकीय–नर्सरी सैदाबादे गुणवत्तायुक्ताः, रोगरहिताः शाक–पादपाः उपलब्धाः सन्ति
प्रयागराजनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। उच्च–गुणवत्तायुक्ताः, रोगरहिताः शाक–पादपाः कृषक–भ्रातृभ्यः उपलब्धं कर्तुं प्रयागराजे राजकीय–आलू–बीज–उत्पादन–क्षेत्रे सैदाबादे हाईटेक्–नर्सरी सञ्चालिता अस्ति। कृषक–भ्रातृभ्यः एतेषां पादपानां न्यूनतम् मूल्यप्
राजकीय नर्सरी में तैयार बेसन को देखते हुए किसान बहनों का छाया चित्र


राजकीय नर्सरी में तैयार की जा रही सब्जियों की बेसन का छाया चित्र


प्रयागराजनगरम्, ०६ फेब्रुवरीमासः (हि.स.)। उच्च–गुणवत्तायुक्ताः, रोगरहिताः शाक–पादपाः कृषक–भ्रातृभ्यः उपलब्धं कर्तुं प्रयागराजे राजकीय–आलू–बीज–उत्पादन–क्षेत्रे सैदाबादे हाईटेक्–नर्सरी सञ्चालिता अस्ति। कृषक–भ्रातृभ्यः एतेषां पादपानां न्यूनतम् मूल्यप्राप्तिः साध्यते इति शुक्रवासरे जनपद–उद्यान–अधिकारिणा श्रीसौरभ–श्रीवास्तवेन सूचितम्।

श्रीवास्तव: उक्तवान् यत् उच्च–गुणवत्तायुक्ताः, रोगरहिताः शाक–पादपाः कृषक–भ्रातृभ्यः उपलब्धं कर्तुं सैदाबादे राजकीय–आलू–बीज–उत्पादन–प्रक्षेत्रे हाईटेक्–नर्सरी सञ्चालनं क्रियते। अत्र गुणवत्तायुक्ताः, रोग–रहिताः शाक–पादपानां नर्सरी–सज्जा क्रियते तथा निदेशालयेन निर्दिष्टाः न्यूनतम–विक्रय–दराः अभ्यस्ताः सन्ति – रक्तांगम्, वृत्तांकम्, गोपुष्पम् इत्यादिनां वर्गीयपादपानां कृते बीज–विभागेन प्रदत्तं पादपं २ रूप्यकं प्रति पादपं कृषकेण स्वयं बीजप्रदाने १.७५ रूप्यकं प्रति पादपं कद्दूवर्गीयपादपानां कृते बीज–विभागेन प्रदत्तं पादपं २.४५ रूप्यकं कृषकेण स्वयं दत्तं पादपं १.२२ रूप्यकम् वर्तते।

श्रीवास्तव: उक्तवान् यत् वर्तमानकाले रक्तांगम्, गोपुष्पं, चर्भटी, कद्दू–पेठा, मरीचिका पम्पा–पादपानां सज्जा नर्सरीमध्ये क्रियते। इच्छुकाः कृषकाः कार्यदिने भ्रमणं कृत्वा निर्धारितं शुल्कं समर्पयित्वा हाईटेक्–नर्सरी–त: पादपान् प्राप्तुं शक्नुवन्ति। अधिकसूचनायै कार्यालये – जनपद–उद्यान–अधिकारिणः, प्रयागराज–विकास–भवनस्य तृतीय–तले कक्ष–संख्या ८५, अथवा राजकीय–आलू–बीज–उत्पादन–प्रक्षेत्रे सैदाबादे श्री-अमित–कुमार–भास्करः, सहायक–उद्यान–निरीक्षकः (मो. नं. ९८८९५९२६०७) इत्यत्र सम्पर्कं कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता