Enter your Email Address to subscribe to our newsletters

—मंदिरस्य मुख्य कार्यपालक अधिकारी विधि- विधानेन धाम्नः स्थितस्य प्रथम पूज्य श्री गणेश भगवतोऽकरोत् पूजाम्
वाराणसी,06 फरवरीमासः (हि.स.)।
उत्तरप्रदेशस्य धार्मिकनगरे वाराणसी काशी नगरे महाशिवरात्रिपर्वणि शिवभक्तानां मध्ये महान् उल्लासः दृश्यते। नगरस्य लघु महान्तः सर्वेषु शिवमन्दिरेषु महापर्वस्य सिद्धताः प्रारब्धाः। शुक्रवासरे श्रीकाशीविश्वनाथधामे अपि महाशिवरात्रेः सिद्धताः आरम्भात् पूर्वं प्रथमपूज्यस्य भगवान् श्रीगणेशस्य विधिविधानपूर्वकं पूजनं कृत्वा महोत्सवस्य प्रारम्भाय अनुमतिं प्राप्तुं विघ्नविनाशकं प्रति प्रार्थना कृता।
श्रीकाशीविश्वनाथमन्दिरन्यासस्य प्रतिनिधित्वं कुर्वन् मन्दिरस्य मुख्यकार्यपालकाधिकारी वैदिकमन्त्रउच्चारणेन सह भगवान् गणेशस्य पूजनं कृतवान्। श्रीगणेशाय वस्त्राणि पुष्पाणि दूर्वा माला नैवेद्यं भोगश्च अर्पिताः तथा भक्तिभावेन स्तुतिं कृत्वा आरती कृता। श्रीकाशीविश्वनाथधामे महाशिवरात्रेः सिद्धतायाः पूर्वं गौरीनन्दनस्य श्रीगणेशस्य पूजनं सम्पन्नम्। तदनन्तरं महाशिवरात्रिमहोत्सवः औपचारिकरूपेण प्रारब्धः।
मन्दिरन्यासस्य अनुसारं शनिवासरात् मन्दिरे स्थितानां सर्वेषां प्रधानविग्रहाणां रुद्राभिषेकः कृत्वा तेषां जागरणं तथा आराधना क्रियते। समस्तदेवताः आहूय महोत्सवे सहभागीभूत्वा श्रद्धालूनां कृते आशीर्वादप्रदानार्थं निमन्त्रिताः भविष्यन्ति।
अस्मिन् वर्षे प्रथमवारं भगवान् विश्वनाथस्य विवाहसम्बद्धानि वस्त्राणि श्रृङ्गारसामग्री च श्रीकृष्णजन्मभूमेः मथुरानगरात् काशी प्रति आनयिष्यन्ति। महाशिवरात्रिदिने एतेनैव वस्त्राभरणादिभिः भगवान् शिवस्य भव्यश्रृङ्गारः करिष्यते। विवाहोत्सवे नेगपञ्चमेवा फलाहारचढावा वस्त्राभरणानि अन्यानि श्रृङ्गारद्रव्याणि च मथुरातः प्रेष्यन्ते। एतानि द्रव्याणि विशेषतः श्रीकृष्णजन्मभूमौ निर्मितानि सन्ति। अष्टम्यां तिथौ सूर्योदयात् अनन्तरं अलङ्कृतयानद्वारा एषा सामग्री वाराणसीं प्रति प्रेष्यते तथा नवम्यां तिथौ श्रीकाशीविश्वनाथधामं प्राप्स्यति।
उल्लेखनीयम् यत् रंगभरीएकादश्यां विश्वनाथाय मथुरातः अबीरगुलालः प्रेष्यते। गतवर्षे श्रीकाशीविश्वनाथटसमितेः तथा श्रीकृष्णजन्मभूमेश्च मध्ये सहमतिं कृत्वा नेगोपहारप्रेषणस्य परम्परा आरब्धा। तेन विश्वनाथधाम तथा श्रीकृष्णजन्मस्थान मथुरा इत्येतयोः मध्ये उपहाराणां आदानप्रदानक्रमः अपि प्रारब्धः।
---------------
हिन्दुस्थान समाचार