Enter your Email Address to subscribe to our newsletters

- योगीसर्वकारस्य औद्योगिक नीतितो निवेशकेभ्यो वर्धते विश्वासो, निर्माणं प्रति वर्धिताः परियोजनाः
-15 निवेशकानां भवनस्य मानचित्रं स्वीकृतम्, केषुचित् एककेषु निर्माण कार्यमपि शुभारब्धं, योजनायाः द्वितीय चरणाय भूमेः अधिग्रहणं प्रगतिपथि
लखनऊ, 06 फरवरीमासः(हि.स.)।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश शासनस्य औद्योगिक विकासनीतेः प्रभावः अधुना यमुना एक्सप्रेसवे औद्योगिक क्षेत्रे स्पष्टतया दृश्यते। औद्योगिक सेक्टर ३३ मध्ये विकसित्यमाने टॉय पार्के निवेश तथा निर्माणयोः उभयोः स्तरयोः शीघ्रं प्रगतिः अभिलिखिता अस्ति। प्राधिकरणेन टॉय पार्कार्थं आरक्षितेषु १०० एकर परिमितेषु भूमिक्षेत्रेषु समग्रतः १५४ औद्योगिक भूखण्डाः नियोजिताः सन्ति, तेषु १४३ भूखण्डानां आवंटनं सम्पन्नम् अस्ति। एते आँकडाः राज्ये औद्योगिक निवेशविषये निवेशकानां वर्धमानं विश्वासं प्रदर्शयन्ति।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे राज्यशासनस्य लक्ष्यं स्पष्टम् अस्ति यत् औद्योगिक परियोजनानि केवलं अनुमतिपर्यन्तं न सीमिताः स्युः, अपितु तासां समये क्रियान्वयनम् अपि सुनिश्चितं भवेत्। यमुना एक्सप्रेसवे मार्गे विकसित्यमानः टॉय पार्कः अस्याः नीत्याः उत्कृष्टम् उदाहरणं रूपेण उदेति। पारदर्शी आवंटनप्रक्रिया, शीघ्रा लीज प्रक्रिया तथा निर्माणगतिविधिभिः उत्तरप्रदेशः देशस्य प्रमुख औद्योगिक केन्द्ररूपेण स्वस्य सुदृढां उपस्थितिं स्थापयति।
यमुना एक्सप्रेसवे औद्योगिक विकास प्राधिकरणस्य ताजप्रगति प्रतिवेदनानुसारं टॉय-उद्याने आवंटितेषु १४३ भूखण्डेषु १२४ निवेशकैः लीज योजना प्रस्तुताः सन्ति, किन्तु १९ प्रकरणेषु अद्यापि लीज योजना प्राप्ता नास्ति। एतेभ्यः निवेशकेभ्यः एकमासस्य अन्तरे आवश्यकदस्तावेजाः प्रदातुं निर्देशः दत्तः। अद्यावधि १२० आवंटितेभ्यः जाँचसूची प्रदत्ता अस्ति तथा ४ प्रकरणेषु प्रक्रिया प्रवर्तते।
भूमेः हस्तांतरणे अपि परियोजना सुदृढगतिं प्राप्तवती। अद्यावधि १०८ निवेशकानां पक्षे लीज लेखस्य निष्पादनं सम्पन्नम्, तथा ७६ निवेशकेभ्यः विधिवत् पजेशनम् प्रदत्तम्। अनेन परियोजना केवलं लेखपत्रेषु न स्थित्वा वास्तविकनिर्माणदिशि अग्रे गच्छति।
निर्माणकार्येषु १५ निवेशकानां भवनमानचित्राणि स्वीकृतानि सन्ति, तथा ४ औद्योगिक इकाइषु निर्माणकार्यस्य आरम्भः अपि जातः। एतत् टॉय पार्कस्य वास्तविकरूपेण विकासस्य महत्त्वपूर्णा उपलब्धिः मन्यते। शासनस्य प्रयासः अस्ति यत् आवंटनसह परियोजनाः समयबद्धरूपेण भूमौ अवतरेयुः, येन रोजगारसृजनं स्थानीय अर्थव्यवस्थायाः च उन्नतिः भवेत्।
द्वितीयचरणे ११ भूखण्डेषु ४ भूखण्डानां भूमि उपलब्धा अस्ति, ये नूतनयोजनया प्रकाशिताः। अवशिष्टेषु ७ भूखण्डेषु, येषां क्षेत्रफलम् ६.७१ एकर अस्ति, अद्यापि आवंटनं शेषम् अस्ति। तेषां कृते भूम्यधिग्रहणकार्यं शीघ्रतया प्रवर्तते, यथा ते अपि शीघ्रमेव निवेशकेभ्यः उपलब्धाः स्युः।
टॉय पार्कस्य अन्तर्गतं क्रीडनक उद्योगसम्बद्धानां विनिर्माण इकाइषु स्थापना प्रस्ताविता अस्ति, यस्मिन् प्लास्टिक, काष्ठं, वस्त्रं, धातुः अथ इलेक्ट्रॉनिक क्रीडनकनिर्माणसम्बद्धाः क्रियाकलापाः समाविष्टाः सन्ति। योजनायाः अन्तर्गतं सामूहिकसुविधा केन्द्रम्, डिजाइन, आवरणीकरणं, परीक्षणं, भण्डारणं तथा लॉजिस्टिक्ससम्बद्धं आधारभूतसंरचनाविकासः अपि प्रस्तावितः। तत्सह लघु मध्यम उद्यमान् तथा नवप्रारम्भ उद्यमान् औद्योगिकक्रियासु संयोजयितुं, कौशलविकासं वर्धयितुं, रोजगारसृजनं च प्रोत्साहयितुं व्यवस्थाः अपि कल्पिताः सन्ति, येन यमुना एक्सप्रेसवे क्षेत्रं क्रीडनक उद्योगस्य संगठित औद्योगिक केन्द्ररूपेण विकसितुं शक्यते।
---------------
हिन्दुस्थान समाचार