Enter your Email Address to subscribe to our newsletters

पूर्वीचम्पारणम्, ०६ फेब्रुवरीमासः (हि.स.)। भारतीय–कृषि–अनुसन्धान–परिषद् (आईसीएआर), नवदिल्ली–द्वारा सञ्चालिते महात्मा–गान्धी–समेकित–कृषि–अनुसन्धान–संस्थाने, पीपराकोठी–नगरे, पञ्चम–षष्ठ–फेब्रुवरी–दिने द्विदिवसीयस्य राष्ट्रिय–कार्यशालायाः सफलम् आयोजनम् अभवत्।
उद्घाटन–सत्रे महात्मा–गान्धी–केन्द्रीय–विश्वविद्यालयस्य कुलपतिसहितं देशस्य विविध–प्रदेशेभ्यः आगताः कृषि–वैज्ञानिकाः सहभागं कृतवन्तः। तैः प्रौयोगिकी–सत्राणां माध्यमेन कृषकेभ्यः आधुनिक–कृष्या: सम्बन्धिनी विस्तीर्णा सूचना प्रदत्ता।
कार्यशालायाः प्रथम–दिने त्रीणि तकनीकी–सत्राणि आयोजितानि, द्वितीय–दिने तु द्वे प्रौद्योगिकी–सत्रे आयोजिते। द्वितीय–दिने प्रथम–सत्रे कृषकाः संग्रामपुर–स्थितं काश–फार्म् भ्रमितवन्तः, यत्र मत्स्य–पालनस्य आधुनिक–प्रौद्योगिकी तथा तस्माद् आय–वर्धनस्य उपायाः अवगताः।
द्वितीय–सत्रे आगताः वैज्ञानिकाः कृषकैः सह संवादं कृत्वा तेषां समस्याः श्रुतवन्तः, तथा वैज्ञानिक–रीत्या तेषां समाधानानि निर्दिष्टवन्तः। कार्यक्रमावसरे केन्द्रस्य वैज्ञानिकः डॉ.विजय–सिंह–मीणा द्विदिवसीय–कार्यशालायां सम्पन्नानां विविध–सत्राणां क्रियाकलापानां च संक्षिप्तां रूपरेखां प्रस्तुतवान्।
सः अवदत् यत् कृषकेभ्यः नूतन–प्रौद्योगिकीनाम् उपयोगः, उत्पादन–वृद्धिः, कृषि–क्षेत्रस्य विकासाय च अनेका: महत्वपूर्णा: सूचना: प्रदत्ताः। कार्यक्रमस्य समापन–अवसरे मुख्यातिथिरूपेण पूर्व–निदेशकः डॉ.के.मण्डलः, विशिष्टातिथिरूपेण केन्द्रीय–लीची–अनुसन्धान–संस्थानस्य (मुजफ्फरपुरम्) निदेशकः डॉ.विकास–दासः च उपस्थितौ आस्ताम्।
हिन्दुस्थान समाचार / अंशु गुप्ता