सीजेआई सूर्यकांतः अद्य भोपाले करिष्यति न्यायिक मंथनं, 25 उच्च न्यायालयस्य मुख्यो न्यायाधीशस्सम्मेलिष्यति
भोपालम्, 07 फरवरीयासः (हि.स.)।उच्चतम न्यायालयस्य प्रधान न्यायाधीशः न्यायमूर्ति सूर्यकान्तः अद्य प्रथमवारं मुख्य न्यायाधीशपदं प्राप्तवान् सन् भोपालनगरस्य भ्रमणाय आगच्छति। राजधानीस्थ नेशनल ज्यूडिशियल एकेडमी इत्यत्र आयोजिते द्विदिवसीये राष्ट्रीय सम्मे
सीजेआई न्यायमूर्ति  सूर्यकांत (फाइल फोटो)


भोपालम्, 07 फरवरीयासः (हि.स.)।उच्चतम न्यायालयस्य प्रधान न्यायाधीशः न्यायमूर्ति सूर्यकान्तः अद्य प्रथमवारं मुख्य न्यायाधीशपदं प्राप्तवान् सन् भोपालनगरस्य भ्रमणाय आगच्छति। राजधानीस्थ नेशनल ज्यूडिशियल एकेडमी इत्यत्र आयोजिते द्विदिवसीये राष्ट्रीय सम्मेलने सः देशस्य विभिन्न उच्च न्यायालयानां मुख्य न्यायाधीशैः वरिष्ठ न्यायाधीशैः सह न्यायव्यवस्थां अधिक प्रभाविनीं सुलभां जनकेंद्रितां च कर्तुं विषयेषु विचारविमर्शं करिष्यति।

अस्मिन् राष्ट्रिये सम्मेलने देशस्य पञ्चविंशतिः अधिक उच्च न्यायालयानां मुख्य न्यायाधीशाः अनेक वरिष्ठ न्यायाधीशाश्च सहभागीभविष्यन्ति। दीर्घकालानन्तरं प्रथमवारम् एतादृशे महति स्तर पर देशस्य सर्वे प्रमुख न्यायाधीशाः एकस्मिन् मञ्चे समागच्छन्ति इति उल्लेखनीयम्। सम्मेलनस्य विषयः एकीकृता कुशला जनकेंद्रिता न्यायपालिका इति निर्धारितः अस्ति। अस्य अन्तर्गतं न्यायप्रणालीं सामान्यजनानां समीपं सरलतया प्रभावीरीत्या च प्रापयितुं उपायेषु चर्चा भविष्यति।

मुख्य न्यायाधीशपदं स्वीकृत्य न्यायमूर्ति सूर्यकान्तस्य एषः मध्यप्रदेशस्य प्रथमः दौरा अस्ति यः न्यायिकदृष्ट्या महत्त्वपूर्णः मन्यते।

न्यायमूर्ति सूर्यकान्तः अस्मिन् सम्मेलने मुख्यं सम्बोधनं दास्यति। स्ववक्तव्ये सः न्यायव्यवस्थां आधुनिकां पारदर्शिनीं समयबद्धां च कर्तुं आवश्यकसुधारविषये स्वविचारान् प्रस्तोष्यति। अपि च न्यायालयेषु लम्बितप्रकरणानां न्यूनता प्रौद्योगिक्याः समुचितप्रयोगः तथा सामान्यनागरिकाणां न्यायप्राप्तेः सुलभीकरणम् इत्यादिषु विषयेषु विशेषं बलं दास्यति।

सम्मेलनकाले विविधेषु सत्रेषु न्यायपालिकायाः कार्यप्रणालीं अधिक समन्वितां कर्तुं न्यायिकप्रक्रियाः सरलाः कर्तुं न्यायालयानां कार्यक्षमतां वर्धयितुं च विषयेषु विस्तृतः विमर्शः भविष्यति। न्यायप्रणालीं अधिक मानवीयां पारदर्शिनीं जनकेंद्रितां च कथं कर्तव्या इति अपि विचारः क्रियते, येन सामान्यजनानां विश्वासः दृढतरः भवेत्।

भोपालनगरे मुख्य न्यायाधीशस्य आगमनस्य अवसरं दृष्ट्वा प्रशासनद्वारा व्यापकाः व्यवस्थाः कृताः सन्ति। तस्य प्रवासकाले सुरक्षा प्रोटोकॉल सम्बन्धिताः उत्तरदायित्वानि प्रदेशस्य वरिष्ठ पुलिस तथा प्रशासनिक अधिकारिणां हस्ते समर्पितानि सन्ति। विमानतलात् आरभ्य नेशनल ज्यूडिशियल एकेडमी पर्यन्तं सर्वासां व्यवस्थापनानां उच्चस्तरीया निरीक्षणा क्रियते।

---------------

हिन्दुस्थान समाचार