भोपाले नवदिवसीयस्य आदि महोत्सवस्य अद्य भव्यारंभः
- देशस्य समग्रस्य कौशलवद्भिः प्रसारितः आपणः , लोक नृत्य-संगीतं, बालेभ्यः फैंसीवस्त्राणि कलाप्रतियोगिताः चापि भविष्यन्ति भोपालम्, 07 फरवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल नगरे जनजातीयसंस्कृतेः शिल्पस्य निक्षेपस्य च संगमरूपः नवदिवसीयः “आदि
फाइल फोटो


- देशस्य समग्रस्य कौशलवद्भिः प्रसारितः आपणः , लोक नृत्य-संगीतं, बालेभ्यः फैंसीवस्त्राणि कलाप्रतियोगिताः चापि भविष्यन्ति

भोपालम्, 07 फरवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल नगरे जनजातीयसंस्कृतेः शिल्पस्य निक्षेपस्य च संगमरूपः नवदिवसीयः “आदि महोत्सवः” आयोज्यते। भोपालस्य हाट बाजार इत्यत्र १५ फरवरी पर्यन्तं प्रवर्तमानस्य अस्य महोत्सवस्य शनिवासरे सायंकाले भव्यरूपेण उद्घाटनं भविष्यति।

आदिमजाति कल्याणविभागस्य जिलासंयोजकः सुनील मरकाम अवदत् यत् अस्मिन् महोत्सवे राजस्थानस्य ब्लू पॉटरी, ओडिशाराज्यस्य डोकरा कला, पश्चिमबङ्गालस्य काथा कार्यं, तमिलनाडुराज्यस्य तोडा शाल इत्यादीनि सहितं देशस्य विविधराज्यानां जनजातीयशिल्पकाराणां हस्तकरघा हस्तशिल्प उत्पादानां प्रदर्शनी विक्रयश्च भविष्यतः।

सः अपि अवदत् यत् महोत्सवस्य कालावधौ जनजातीयभोजनानां स्वादास्वादनं, पीवीटीजी समूहैः उत्पादितानां वनउत्पादानां विक्रयः, नानाविधानां सांस्कृतिककार्यक्रमाणां प्रस्तुतीकरणं च भविष्यति। आयोजकसंस्था ट्राइफेड अर्थात् भारतीय जनजातीय सहकारी विपणन विकास संघ लिमिटेड इत्यनेन अधिकाधिकजनानां सहभागितायाः आह्वानं कृतम्। सामान्यजनाः अपि प्रत्यक्षतया आगत्य कार्यक्रमेषु सहभागिनः भवितुं शक्नुवन्ति।

एषः राज्यस्तरीयः महोत्सवः ट्राइफेड संस्थायाः मध्यप्रदेशीय क्षेत्रीयकार्यालयेन आयोजितः, यस्मिन् प्रायः षष्टिः आपणिकाःस्थाप्यन्ते। अत्र मध्यप्रदेशसहितं देशस्य विभिन्नराज्यानां जनजातीयशिल्पकाराः स्वहस्तनिर्मितानां वस्तूनां प्रदर्शनीं विक्रयं च करिष्यन्ति।

आदि महोत्सवे आगच्छन्तः जनाः एकस्मिन् स्थाने एव देशस्य विविधभागानां जनजातीयकलां संस्कृतिं च समीपतः द्रष्टुं शक्नुवन्ति। नागालैण्डस्य नागा शॉल, मेघालयस्य पारम्परिक साड्यः, मणिपुरस्य कृष्णमृद्भाण्डकला, असमस्य एरी रेश्म, लद्दाखस्य पश्मीना शाल, राजस्थानस्य ब्लू पॉटरी, छत्तीसगढस्य कोसा रेश्म, पश्चिमबङ्गालस्य काथा रेश्म, कर्नाटकस्य कलमकारी साड्यः, ओडिशायाः सोरा चित्रकला, महाराष्ट्रस्य वारली चित्रकला च प्रमुखाकर्षणानि भविष्यन्ति। मध्यप्रदेशस्य महेश्वरी, चन्देरी तथा बाघ प्रिन्ट वस्त्राणि, गोंड चित्रकला, कृष्णलौहशिल्पं च विशेषरूपेण प्रदर्श्यन्ते।

महोत्सवस्य उद्घाटनानन्तरं जनजातीय लोकनृत्य लोकसंगीतयोः कार्यक्रमाः भविष्यन्ति।८ फरवरी दिने मध्यप्रदेश सांस्कृतिक दिवसः, जनजातीयदलैः नृत्यसंगीतप्रस्तुतयः।९ फरवरी दिने दक्षिणभारत सांस्कृतिक संध्या, दक्षिणभारतीय पारम्परिकनृत्यप्रदर्शनम्।१० फरवरी दिने संगीतसंध्या, व्यावसायिकसंगीतदलस्य ऑर्केस्ट्रा संगीतकार्यक्रमः कराओके च।१२ फरवरी दिने पुनः संगीतसंध्या।१३ फरवरी दिने “इण्डिया डे”, विविधराज्यानां पारम्परिक जनजातीयवेषभूषास्पर्धा।१४ फरवरी दिने बालविशेषकार्यक्रमाः “आदि चित्र” चित्रकला स्पर्धा तथा वेशभूषा स्पर्धा।१५ फरवरी दिने समापनसमारोहः, सांस्कृतिकप्रस्तुतयः तथा विजेतृणां सम्मानः।

बालकानां, परिवाराणां, यूनां च कृते एषः महोत्सवः विशेषरूपेण आकर्षकः अस्ति। बालकेभ्यः चित्रकला वेशभूषा स्पर्धाः, युवकेभ्यः संगीतप्रेमिभ्यश्च ऑर्केस्ट्रा कराओके कार्यक्रमाः आयोजिताः सन्ति। परिवारैः सह आगताः जनाः शिल्पप्रदर्शनीं पश्यन्तः जनजातीयभोजनानां सांस्कृतिककार्यक्रमाणां च आनन्दम् अनुभवन्ति।

हिन्दुस्थान समाचार