Enter your Email Address to subscribe to our newsletters

- निशातपुरा-भोपालमध्ये ३५० बालकैः आत्मरक्षा-कौशलस्य प्रदर्शनम्
भोपालम्, 07 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालस्य निशातपुरा-थाना-क्षेत्रे सामुदायिक-पुलिसिङ्गस्य भावनां व्यवहाररूपेण स्थापितुम् आयोजितस्य षोडश-दिवसीयस्य ‘सृजन’ कार्यक्रमस्य शनिवासरे भव्यः समापन-समारोहः सफलतया सम्पन्नः।
पुलिस-विभागस्य तथा ‘मुस्कान’ संस्थायाः संयुक्त-तत्त्वावधानाय आयोजिते अस्मिन् प्रशिक्षण-शिविरे गांधी-नगर, आरिफ-नगर, कमला-नगर तथा एहसान-नगर-क्षेत्रेषु निवसन्तः प्रायः ३५० बालकाः सहभागं कृत्वा आत्मरक्षा-व्यक्तित्व-विकासयोः शिक्षां प्राप्नुवन्। कार्यक्रमे मुख्य-अतिथिरूपेण पुलिस-विभागस्य वरिष्ठ-अधिकारी—डॉ. विनीत-कपूरः (DIG), किरण-लता केरकेट्टा (DIG), मयूर-खण्डेलवालः (DCP ZONE-4), अमृत-मीणा (AIG) तथा अक्षय-चौधरी (ACP) निशातपुरा—उपस्थिताः आसन्। तदनन्तरं थाना-प्रभारी (TI) मनोज-पटवा, उपनिरीक्षकः अशोक-शर्मा, निशातपुरा-थानस्य सम्पूर्णः स्टाफः, मुस्कान-संस्था, यूथ-फैसिलिटेटर्स तथा उदय-संस्थायाः कर्मचारीगणः अपि विशेषरूपेण उपस्थितः आसीत्।
समारोहस्य आरम्भः अतिथीनां स्वागत-सत्कारैः अभवत्। ततः बालकैः मराठी-गोंडी-लोकनृत्ययोः मनोहरं प्रदर्शनं कृत्वा सांस्कृतिक-विविधतायाः सुन्दरं दर्शनं कारितम्। कार्यक्रमस्य मुख्य-आकर्षणं मार्शल-आर्ट् तथा ‘पावर-वॉक्’ इत्यस्य प्रदर्शनम् आसीत्। बालकैः स्व-शारीरिक-सामर्थ्यं तथा आत्मरक्षा-कौशलं प्रदर्शयित्वा ‘शक्तेः सुरक्षायै’ इति संकल्पः सजीवः कृतः।
यदा बालकाः पुलिस-गणवेशं धृत्वा अनुशासित-परेड् अकुर्वन्, तदा प्रत्येकं पाद-चरणेन एषः भावः अधिकं दृढः अभवत्—प्रतिभा कस्यापि परिचयस्य अपेक्षां न करोति; तस्य केवलं अवसरः विश्वासश्च आवश्यकौ स्तः।
कार्यक्रमस्य सर्वाधिकं प्रभावशालीं भावनात्मकं च क्षणं तदा आगतम्, यदा DCP जोन-४ मयूर-खण्डेलवालः स्वस्य लघु-कन्यायै—या स्वयं पुलिस-वर्द्यां आसीत्—महिला-निरीक्षकस्य हस्ताभ्यां IPS-शिरोवेष्टनं धारयामास। सः दृश्यः केवलं औपचारिकः नासीत्, अपि तु बालकानां कृते जीवित-स्वप्नरूपः आसीत्—यत् तेऽपि कदाचित् अस्यामेव वर्द्यां, अस्यैव गरिमायै सह, समाजं राष्ट्रं च सेवितुं शक्नुवन्ति।
सः एकः क्षणः बालकानां हृदये आत्मविश्वासस्य बीजानि अवपतत्, नेत्रयोः भविष्यस्य आलोकं जनयत्, एतच्च संदेशं दत्तवान्—यत् सम्यक् मार्गदर्शनम्, अनुशासनं दृढः संकल्पश्च स्यात् चेत्, तर्हि कश्चन बालकः अपि स्व-स्वप्न-साधनं कर्तुं समर्थः भवति। स एव क्षणः अस्य कार्यक्रमस्य महान् उपलब्धिः अभवत्।
प्रशिक्षण-काले आगतानां परिवर्तनानां विषये बालकैः उक्तं यत् एतानि षोडशदिनानि तेषाम् अन्तः आत्मविश्वासं, अनुशासनं नेतृत्व-क्षमतां च विकसितवन्तः। एका प्रतिभागिन्याः माता भावविह्वला भूत्वा अवदत् यत् कथं तस्याः पुत्री अधुना अध्ययनं, गृहकार्यं प्रशिक्षणं च सम्यक् सन्तुलनेन निर्वहति।
मुख्य-अतिथिभिः स्व-उद्बोधनेषु मातापित्रोः बालकानां च मध्ये संवाद-अभावस्य निराकरणे, दृढ-पारिवारिक-सम्बन्धानां निर्माणे च विशेषं बलं दत्तम्, येन समाजे सकारात्मकः परिवर्तनः सम्भवेत्। कार्यक्रमस्य अन्ते प्रशिक्षकः गोविन्दः अन्ये च समन्वयकाः प्रशिक्षणस्य चुनौतयः तथा बालकानां आचरणे आगतान् सुधारान् विषदतया प्रस्तुतवन्तः। सर्वेभ्यः ३५० सहभागिभ्यः प्रशिक्षण-प्रमाणपत्राणि वितरितानि।
‘सृजन’ कार्यक्रमस्य उद्देश्यः
‘सृजन’ केवलं प्रशिक्षण-शिविरः न, अपि तु सामुदायिक-सुरक्षायाः दिशायां मानवीयः प्रयासः अस्ति। अस्य माध्यमेन पुलिस-प्रशासनं बस्ती-निवासी-बालकान् प्रति उपगम्य तेषां मार्शल-आर्ट्, सांस्कृतिक-क्रियाकलापान् तथा जीवन-कौशलानां (Life Skills) प्रशिक्षणं ददाति, येन ते आत्मविश्वासयुक्ताः, सक्षमाः, उत्तरदायिनः नागरिकाः भवेयुः तथा पुलिसं स्वं विश्वसनीयं सहचरं मन्येरन्।
------------------
हिन्दुस्थान समाचार