मुख्यमन्त्रिणा योगिना गुरु गोरखनाथ-राजकीय-महाविद्यालयस्य निरीक्षणम् कृतम्
पौड़ीगढ़वालः, 08 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उत्तराखण्ड-प्रवासस्य द्वितीये दिने शनिवासरे बिथ्याणी (यमकेश्वर) स्थितं गुरु गोरखनाथ-राजकीय-महाविद्यालयं अवलोकितवान्। अस्मिन् अवसरे मुख्यमन्त्रीणाऽपि महाविद्यालय-परिसरे आ
उत्तरप्रदेश के मुख्यमंत्री योगी आदित्यनाथ का फाइल चित्र।


पौड़ीगढ़वालः, 08 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उत्तराखण्ड-प्रवासस्य द्वितीये दिने शनिवासरे बिथ्याणी (यमकेश्वर) स्थितं गुरु गोरखनाथ-राजकीय-महाविद्यालयं अवलोकितवान्।

अस्मिन् अवसरे मुख्यमन्त्रीणाऽपि महाविद्यालय-परिसरे आम्र-वृक्षस्य रोपणं कृत्वा पर्यावरण-संरक्षणस्य सन्देशः प्रदत्तः। ततः सः महाविद्यालय-परिसरस्य निरीक्षणं कृतवान् तथा स्वगुरोः राष्ट्रसन्तस्य ब्रह्मलीन-महन्त-अवेद्यनाथस्य प्रतिमायां माल्यार्पणं कृत्वा पुष्पाञ्जलिं समर्पितवान्। विद्यालय-परिवारेण मुख्यमन्त्रिणः स्मृति-चिह्नं दत्त्वा हार्दिकं स्वागतं कृतम्।

अस्मिन् कार्यक्रमे भारतीय-सेनायाः १२७ गढ़वाल-इन्फैन्ट्री-बटालियन इत्यस्य सैनिकाः “भारत-माताः जय” इति घोषैः सम्पूर्णं कार्यक्रमं देशभक्ति-भावेन आलोकितवन्तः। तदनन्तरं स्थानीय-जनाः अपि भारत-मातुः जयघोषं कुर्वन्तः मुख्यमन्त्रिणः समर्थनं व्यक्तवन्तः।----------------

हिन्दुस्थान समाचार