Enter your Email Address to subscribe to our newsletters

- महाशिवरात्रि-पर्वणः पूर्वसज्जतां दृष्ट्वा आयुक्त–जिलाधिकारी चेत्यादिभ्यां सह धाम-परिसरे उपवेशनम्, आवश्यक-दिशानिर्देशाः प्रदत्ताः
वाराणसी,07 फरवरीमासः (हि.स.)।महाशिवरात्रि-पर्वात् पूर्वम् उत्तरप्रदेशस्य धार्मिक-नगरे वाराणस्यां शनिवासरे सायं पुलिस-आयुक्तः मोहित्-अग्रवालः श्रीकाशी-विश्वनाथ-धाम-क्षेत्रस्य भ्रमणं कृत्वा व्यवस्थाः सम्यक् परीक्षितवान्। सः श्रद्धालूनां सम्भाव्य-सम्मर्द्धं तथा सुरक्षा-व्यवस्थां दृष्ट्वा धाम-परिसरे स्थलीय-निरीक्षणं कृत्वा सुरक्षा, यातायात तथा जन-सुविधा-सम्बद्धाः व्यवस्थाः अवलोकितवान्, पुलिस-अधिकारिणां च आवश्यकान् दिशानिर्देशान् दत्तवान्।
तदनन्तरं वाराणसी-मण्डलायुक्तेन एस्. राजलिङ्गम् तथा जिलाधिकारी सत्येन्द्र-कुमार सहितैः वरिष्ठ-अधिकारिभिः सह धाम-परिसरे गोष्ठी आयोजिता। अस्याम् उपवेशने महाकुम्भस्य अनुकरणेन व्यवस्था-निर्माणे विशेषं बलं दत्तम्।
मण्डलायुक्तः अवदत् यत् महाकुम्भे यथा “पलट-प्रवाह”-पद्धत्या सम्मर्द्ध-प्रबन्धनं कृतं, तथैव महाशिवरात्रि-पर्वे अपि दर्शनार्थीनाम् आवागमनं, दर्शनं तथा पूजनं सुव्यवस्थितं सुरक्षितं च भवेत्, इति दृष्ट्या रणनीतिः निर्मिता अस्ति। पर्वकाले पुलिस, पीएसी तथा अर्धसैनिक-बलानां पर्याप्त-तैनाती सुनिश्चितं भविष्यति। संवेदनशील-स्थानेषु रूफटॉप-ड्यूटी नियोजिता भविष्यति, सीसीटीवी-कैमरा-ड्रोण-यन्त्रैः सततं निरीक्षणं करिष्यते।
दर्शनार्थीनां सहज-सुव्यवस्थित-दर्शनाय पुलिसकर्मिणां नियुक्तिः करिष्यते। महिला-श्रद्धालूनां सुविधार्थं महिला-पुलिसकर्मिणां विशेष-तैनाती भविष्यति। निश्चित-स्थानेषु होल्डिंग्-एरिया निर्मिताः सन्ति। मन्दिरस्य प्रवेश-निर्गमन-मार्गाः पूर्वनिर्धारिताः करिष्यन्ते। मन्दिरस्य सर्वेषु प्रवेश-द्वारेषु निषिद्ध-वस्तूनां स्पष्टा सूची सूचक-पट्टैः प्रदर्शिता करिष्यते। स्थान-स्थानं बैगेज्-काउण्टर-व्यवस्था करिष्यते, येन श्रद्धालूनां किमपि कष्टं न भवेत्।
विशेष-यातायात-योजनाया अन्तर्गतं मार्ग-परिवर्तनं, एकमार्ग-व्यवस्था तथा वाहन-निषेध-क्षेत्रं प्रवर्तयिष्यते। बाह्य-जनपदान् आगतानि वाहनानि केवलं निर्दिष्ट-पार्किङ्ग-स्थानेषु एव स्थापयिष्यन्ति। मार्गेषु अनधिकृत-पार्किङ्गं सर्वथा न भवेत्, इति निर्देशाः प्रदत्ताः। मार्गेषु सुदृढ-बैरिकेटिङ्ग् तथा आवश्यकतानुसार बैरियराः स्थापयिष्यन्ते।
अग्निशमन-दलम्, श्वान-दलम् तथा एम्बुलेन्स्-दलानि सतर्क-अवस्थायां स्थापयितुं निर्देशाः दत्ताः।
जन-सुविधा तथा संवाद-व्यवस्था
श्रद्धालूनां सुविधा-मार्गदर्शनार्थं पीए-प्रणाल्या सततं उद्घोषणा करिष्यते। पुलिसकर्मिभ्यः दर्शनार्थिषु प्रति विनम्रं, सहयोगात्मकं तथा संवेदनशीलं व्यवहारं कर्तुम् विशेष-निर्देशाः अपि दत्ताः।
---------------
हिन्दुस्थान समाचार