Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 07 फ़रवरीमासः (हि.स.)।
उत्तराञ्चल प्रधानाचार्य परिषदः जनपदीय इकायाः वार्षिकसभा शुक्रवासरे डॉ हरिराम आर्य इण्टर कॉलेज मायापुर इत्यत्र सम्पन्ना अभवत्। सभायां परिषदः प्रान्तीय संरक्षकः डॉ घनश्याम गुप्तः अवदत् यत् शासकीयविद्यालयैः सह विमातृकव्यवहारः कस्यापि मूलन सहनीयः भविष्यति।
सः उक्तवान् यत् अशासकीयविद्यालयेषु रिक्तेषु शताधिकेषु पदेषु नियुक्तिं कर्तुं विहाय शासनस्य पक्षतः स्थायी योजनारहितानां पदानां पुनर्जीवनस्य नूतनः प्रस्तावः प्रस्तुतः, यस्य शीघ्रमेव उच्चन्यायालये अभियोगं करिष्यते।
जनपदीय संरक्षकः डॉ प्रधान विजयकुमारः अवदत् यत् संगठनस्य पदाधिकारी पूर्णसक्रियतया परिषदः संचालनं कुर्वन्ति, अस्मिन् कार्ये जनपदस्य सर्वेषां प्रधानाचार्याणां सहभागिता अत्यावश्यकी अस्ति।
जिलाध्यक्षः डॉ दीपक शर्मा प्रधानाचार्याणां दीर्घकालात् लंबितानां समस्याणां शीघ्रसमाधानार्थं प्रतिमासस्य अन्तिमकार्यदिने अपराह्णे द्विवादने मुख्यशिक्षाधिकारी कार्यालये सर्वेषां प्रधानाचार्याणां उपस्थितिं प्रार्थितवान्। जिल्लोपाध्यक्षः मीनाक्षी शर्मा अवदत् यत् कलियुगे संगठन एव शक्ति अस्ति, अतः सर्वैः संगठितैः भूत्वा संगठनं अधिकं सुदृढं करणीयम्।
जिलामन्त्री डॉ अरविन्द शर्मा तथा जिलाकोषाध्यक्षः डॉ ओम सिंह सैनी डाउनग्रेड व्यवस्थायाः परिवर्तनविषयं उद्घाट्य समानकार्यस्य कृते समानवेतनस्य मांगं पुनरुक्तवन्तौ। मार्गदर्शकः सुदेश अरोड़ा सभासु स्वीकृतानां निर्णयानां क्रियान्वयनार्थं प्रान्तीयनेतृत्वेन सह कन्धेन कन्धं मिलित्वा कार्यं कर्तव्यमिति उक्तवान्।
सभायां उपस्थिताः सर्वे प्रधानाचार्याः स्वस्वसुझावान् सभापटलस्य पुरतः प्रस्तुतवन्तः। अस्मिन् अवसरे परिषदः पक्षतः मुख्यशिक्षाधिकारीस्य वरिष्ठवैयक्तिकाधिकारी अशोककुमारः सेवानिवृत्तौ शालां धारयित्वा गङ्गाजलिं पुष्पगुच्छं च प्रदाय सम्मानितः।
तथा जनपद हरिद्वारतः प्रदेशकार्यकारिण्यां चयनिताः प्रान्तीय संरक्षकः डॉ घनश्याम गुप्तः, प्रान्तीयकार्यकारिणी सदस्यः डॉ दीपक शर्मा, जनपदीय संरक्षकः डॉ प्रधान विजयकुमारः, मार्गदर्शकः सुदेश अरोड़ा, एल डी ए वी इण्टर कॉलेज रुड़की इत्यस्य नवनियुक्तः प्रधानाचार्यः सुरेश कुमार राय इत्येतेषां माल्यार्पणेन स्वागतं कृतम्।
सभायां हितेश गुप्तः, विनोद कुमार सैनी, विराज सिंह, जितेन्द्र नेगी, अरुण कुमार, राजेन्द्र सिंह वर्मा, सुनील कुमार कटारिया, प्रदीप कुमार, डॉ लक्ष्मी देवी, ज्योत्सना, जयचन्द चतुर्वेदी, अंकित चौहान इत्यादयः बहवः प्रधानाचार्याः उपस्थिताः आसन्।
हिन्दुस्थान समाचार