मुख्यमंत्री कच्ची दरगाह–बिदुपुरषड्पंक्त्यात्मिकायाः गंगासेतुपरियोजनायाः अगृह्णात् संज्ञानम्,अप्रैलमासं यावत् शेष कार्यं पूर्णं कर्तुं निर्दिष्टम्
पटना, 08 फरवरीमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारो रविवासरे कच्चीदरगाह बिदुपुर षट्पथीय गङ्गासेतुपरियोजनायाः निर्माणकार्यस्य स्थलीय निरीक्षणं कृतवान्। अस्मिन् अवसरे सः अधिकारिभ्यः कार्यप्रगतेः विस्तृतां जानकारीं प्राप्तवान् तथा अवश
कच्ची दरगाह-बिदुपुर 6 लेन गंगा पुल परियोजना के निर्माण कार्य का मुख्यमंत्री  जायजा लेते हुए


पटना, 08 फरवरीमासः (हि.स.)।

बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारो रविवासरे कच्चीदरगाह बिदुपुर षट्पथीय गङ्गासेतुपरियोजनायाः निर्माणकार्यस्य स्थलीय निरीक्षणं कृतवान्। अस्मिन् अवसरे सः अधिकारिभ्यः कार्यप्रगतेः विस्तृतां जानकारीं प्राप्तवान् तथा अवशिष्टनिर्माणकार्याणि निर्दिष्टसमयसीमायां शीघ्रं सम्पन्नानि कर्तुं निर्देशं दत्तवान्।

निरीक्षणसमये अधिकारिणः मुख्यमन्त्रिणे अवदन् यत् परियोजनायाः कार्यं द्रुतगत्या प्रगच्छति तथा अवशिष्टकार्याणि अप्रैलमासपर्यन्तं सम्पन्नानि भविष्यन्ति। एतस्मिन् सः आदेशं दत्तवान् यत् सेतुना सह आगमनमार्गस्य निर्माणमपि शीघ्रं पूर्णं क्रियताम्, येन यातायातः सुरक्षितः निर्बाधश्च आरभ्येत।

मुख्यमन्त्री उक्तवान् यत् अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः सम्पन्नतया पटनानगरस्य समीपवर्तिक्षेत्राणां जनानां कृते निर्बाधा मार्गसंपर्कता उपलब्धा भविष्यति। एतेन अस्मिन् प्रदेशे विकासस्य नवी गतिर्भविष्यति। कृषि उद्योग व्यापारादीनां क्षेत्रेषु प्रोत्साहनं भविष्यति। आपत्कालीनचिकित्सास्थितौ रोगिणां पटनानगरं प्रति गमनं सुकरं भविष्यति, येन समये उपचारः सम्भविष्यति।

सः अपि अवदत् यत् षट्पथीयसेतोः प्रथमचरणस्य लोकार्पणानन्तरं पटनातः राघोपुरपर्यन्तं मार्गसंपर्कता पूर्वमेव पुनर्स्थापिता अस्ति। सः अधिकारिणः आदेशितवान् यत् निर्माणकार्यस्य नियमितनिरीक्षणं कुर्वन्तु, येन गुणवत्ता समयसीमा च सम्यक् पाल्येते।

सः उक्तवान् यत् अस्य सेतोः सम्पन्नतया महात्मागान्धीसेतोः उपरि यातायातभारः न्यूनीभविष्यति। उत्तरबिहार दक्षिणबिहारयोः मध्ये वैकल्पिकमार्गोऽपि उपलब्धो भविष्यति, येन गमनागमनं अधिकं सुलभं भविष्यति। एतेन पटनानगरात् बहिःस्थिता जनाः उत्तरबिहारस्य विभिन्नेषु जिलेषु सहजतया गन्तुं शक्नुवन्ति।

मुख्यमन्त्री अवदत् यत् आमस दरभङ्गा द्रुतमार्गः अपि अस्य कच्चीदरगाह बिदुपुर सेतुपरियोजनया सह संयोज्यते। एतेन समस्तीपुर दरभङ्गा मधुबनी क्षेत्रेषु गच्छतां जनानां बहु सुविधा भविष्यति तथा यात्राकालः लघुतां गमिष्यति।

सः पुनरुक्तवान् यत् राज्यसरकारः गुणवत्तायुक्तानां मार्गाणां सेतूनां च निर्माणेन प्रदेशस्य यातायातव्यवस्थां सुदृढां करोति। सः स्मारितवान् यत् २३ जून २०२५ तिथौ कच्चीदरगाह पटनातः राघोपुर दियारा वैशालीपर्यन्तं नवनिर्मितमार्गस्य उद्घाटनं कृतम्।

उल्लेखनीयम् अस्ति यत् एषा परियोजना पटनाजिलायाः राष्ट्रीयराजमार्गसंख्या ३० स्थितकच्चीदरगाहात् वैशालीजिलायाः राष्ट्रियराजमार्गसंख्या १०३ स्थितबिदुपुरपर्यन्तं गङ्गानद्याः उपरि निर्मीयमाणा अस्ति। अस्याः १९.७६ किलोमीटर दीर्घायाः षट्पथीय ग्रीनफील्ड सेतुपरियोजनायाः अन्तर्गतं ९.७६ किलोमीटर दीर्घः मुख्यसेतुः तथा प्रायः १० किलोमीटर दीर्घाः आगमनमार्गाः अपि निर्मीयन्ते।-------------

हिन्दुस्थान समाचार