बिहारे किसान पंजीकरणस्य तृतीय चरणस्य तिथिः 11 फरवरी यावद्वर्धिष्यते
पटना, 08 फ़रवरीमासः (हि.स.)। एग्री स्टैक अभियानस्य अन्तर्गतं बिहारराज्ये प्रचलितस्य कृषक पञ्जीकरणकार्यस्य शीघ्रतां वर्धयितुं तृतीयचरणस्य विशेष अभियानस्य अवधिः विस्तारिताऽस्ति। पूर्वं एषः अभियानः 02 फरवरीतः 06 फरवरी 2026 पर्यन्तं निर्धारितः आसीत्, क
बिहारे किसान पंजीकरणस्य तृतीय चरणस्य तिथिः 11 फरवरी यावद्वर्धिष्यते


पटना, 08 फ़रवरीमासः (हि.स.)। एग्री स्टैक अभियानस्य अन्तर्गतं बिहारराज्ये प्रचलितस्य कृषक पञ्जीकरणकार्यस्य शीघ्रतां वर्धयितुं तृतीयचरणस्य विशेष अभियानस्य अवधिः विस्तारिताऽस्ति। पूर्वं एषः अभियानः 02 फरवरीतः 06 फरवरी 2026 पर्यन्तं निर्धारितः आसीत्, किन्तु अधुना राज्यसर्वकारेण तस्य विस्तारं कृत्वा 11 फरवरी 2026 पर्यन्तं संचालनस्य निर्णयः कृतः। अस्मिन् विषये राजस्व तथा भूमिसुधार विभागेन कृषिविभागेन च सर्वेषां जिलाधिकारिणां प्रति आवश्यकाः निर्देशाः प्रेषिताः।

राजस्व तथा भूमिसुधार विभागस्य प्रधानसचिवः सीके अनिल तथा कृषिविभागस्य प्रधानसचिवः नर्मदेश्वर लाल इत्येताभ्यां निर्गतपत्रे उक्तं यत् अद्यावधि राज्ये प्रायः त्रिचत्वारिंशत् प्रतिशतं कृषकाणां फार्मर आईडी निर्मिता अस्ति। केन्द्रीयसर्वकारात् एससीए योजना द्वितीयकिस्तप्राप्त्यर्थं न्यूनातिन्यूनं पञ्चाशत् प्रतिशतं कृषकाणां फार्मर रजिस्ट्री पूर्णा भवितुम् अनिवार्या अस्ति। अस्य लक्ष्यस्य पूर्त्यर्थं अभियानस्य अवधिविस्तारः कृतः।

निर्देशानुसारं सर्वे सम्बन्धिताः अधिकारिकर्मचारिणः विस्तारिततिथेः सूचना समये प्राप्स्यन्ति। पञ्जीकरण शिविराणां तिथि स्थानं च व्यापकप्रचारप्रसारेण जनान् ज्ञापनीयम्, येन अधिकाधिकाः कृषकाः शिविरान् आगच्छेयुः। शिविरेषु कृषकाणाम् ई केवाईसी सत्यापनं, बकेट क्लेम प्रक्रिया सम्पन्नता, फार्मर आईडी निर्माणं च विशेषरूपेण प्रोत्साह्यते।

राज्यसर्वकारेण स्पष्टनिर्देशः दत्तः यत् फार्मर रजिस्ट्री कार्ये संलग्नाः सर्वे अधिकारीकर्मचारिणः सक्रियतया अभियाने सहभागिनः भवेयुः, येन पञ्जीकरणप्रक्रिया शीघ्रतया सम्पद्येत तथा कोऽपि पात्रः कृषकः वञ्चितः न भवेत्।

अस्मिन् अभियाने मुजफ्फरपुर जनपदेन उल्लेखनीयं कार्यं कृतम्। तृतीयचरणे अत्र 6522 कृषकाणां फार्मर रजिस्ट्री कृता, येन राज्यस्तरे प्रथमस्थानं प्राप्तम्। अद्यावधि जनपदे समग्रतया 217021 कृषकाणां निबन्धनं सम्पन्नम्, तेषु 124019 कृषकाः प्रधानमन्त्री किसान सम्मान निधि योजनया सम्बद्धाः सन्ति।

अस्य विषये उपमुख्यमन्त्री तथा राजस्व भूमिसुधार विभागस्य मन्त्री विजय कुमार सिन्हा उक्तवान् यत् एग्री स्टैक अभियानस्य अन्तर्गतं कृषकाणां फार्मर रजिस्ट्री केवलं प्रशासनिक औपचारिकता नास्ति, अपितु विविधासां शासकीय योजनानां प्रत्यक्षं पारदर्शि लाभप्रदाने महत्त्वपूर्णा कड़ी अस्ति। तेन उक्तं यत् राज्यसर्वकारस्य प्रयत्नः अस्ति यत् बिहारस्य कश्चन कृषकः अपि अस्य व्यवस्थायाः लाभात् वञ्चितः न भवेत्। अस्यैव उद्देश्याय तृतीयचरणस्य विशेष अभियानस्य अवधिः 11 फरवरी पर्यन्तं विस्तारिताऽस्ति।----------------

हिन्दुस्थान समाचार