डीजीपीद्वारा सूरजकुंड मेला दुर्घटनायां निरीक्षकस्य जगदीश प्रसादस्य निधने गहनया शोकः प्रकटितः
-परिवाराय 1 कोटिरुप्यकाणां आर्थिक सहायता,आहतानाम् उपचारे काचिन्न्यूनता न : अजय सिंघलः फरीदाबादम्, 08 फरवरीमासः (हि.स.)। सूरजकुण्डमेलायां सुनामी इति नामकस्य विहारझूलस्य भग्नतया कर्तव्ये नियुक्तस्य निरीक्षकस्य जगदीशप्रसादस्य निधनम् अभवत्। अस्य दुःखद
मृतक इंस्पेक्टर जगदीश प्रसाद का फाइल फोटो


-परिवाराय 1 कोटिरुप्यकाणां आर्थिक सहायता,आहतानाम् उपचारे काचिन्न्यूनता न : अजय सिंघलः

फरीदाबादम्, 08 फरवरीमासः (हि.स.)। सूरजकुण्डमेलायां सुनामी इति नामकस्य विहारझूलस्य भग्नतया कर्तव्ये नियुक्तस्य निरीक्षकस्य जगदीशप्रसादस्य निधनम् अभवत्। अस्य दुःखदघटनायाः विषये हरियाणापुलिसमहानिदेशकः अजयसिंघलः गम्भीरं शोकं व्यक्तवान्। सः दिवंगतस्य निरीक्षकस्य जगदीशस्य आत्मनः शान्त्यर्थम् ईश्वरं प्रति प्रार्थनां कृतवान् तथा अवदत् यत् तस्य वीरता कर्तव्यनिष्ठा च सर्वदा प्रेरणास्रोतः भविष्यति।

श्रीसिंघलः घोषणां कृतवान् यत् निरीक्षकस्य जगदीशस्य परिवारजनानां कृते नीतिनियमस्य अन्तर्गतं एककोटिरूप्यकाणां आर्थिकसाहाय्यं विभागेन प्रदीयमानान्यन्यलाभांश्च प्रदास्यन्ति। तेन उक्तं यत् हरियाणापुलिसपक्षतः परिवारस्य सर्वथा सहायता क्रियिष्यते।

महानिदेशकः अवदत् यत् मेलायां कर्तव्यपालनसमये निरीक्षकः जगदीशः असाधारणसाहसं कर्तव्यनिष्ठां मानवीयससंवेदनशीलतां च प्रदर्शितवान्। अत्यन्तकठिनासु जोखिमपूर्णासु च परिस्थितिषु अपि सः स्वकर्तव्येभ्यः न निवृत्तः, अपितु जनानां सुरक्षां सर्वोच्चप्राथमिकतया स्वीकृतवान्। तस्य तत्परतया वीरतया च अनेकेषां जनानां प्राणाः रक्षिताः, यत् पुलिससेवायाः उच्चपरम्पराणां जीवदुदाहरणम् अस्ति।

डीजीपी अवदत् यत् निरीक्षकस्य जगदीशस्य योगदानं समर्पणं च सर्वदा प्रेरणादायकं भविष्यति तथा तस्य निधनं पुलिसविभागस्य कृते अपूरणीयहानिः अस्ति। सः शोकसंतप्तपरिवारं प्रति गाढां संवेदनां व्यक्त्वा आश्वासनं दत्तवान् यत् विभागः अस्मिन् कठिनकाले परिवारस्य सह दृढतया तिष्ठति तथा सर्वप्रकारेण साहाय्यं प्रदास्यति।

सः सर्वेषां घायितानां शीघ्रपूर्णस्वास्थ्यलाभस्य कामनां कृत्वा सम्बद्धाधिकाऱिभ्यः आदेशं दत्तवान् यत् तेषां चिकित्सायां काचन न्यूनता न भवेत्।

दिवंगतः निरीक्षकः जगदीशः उत्तरप्रदेशस्य मथुराजिलानिवासी आसीत्। तस्य जन्म ०५ मार्च १९६८ तिथौ अभवत्। सः ३१ जनवरी २०२६ तिथौ पुलिसलाइन पलवलतः सूरजकुण्डमेलाकर्तव्याय नियुक्तः आसीत्। स्वकर्तव्येषु तस्य निष्ठा अनुशासनं कर्तव्यपरायणता च विभागे सर्वविदिता आसीत्।

अस्यां दुर्घटनायां नीलम नाम्नी महिला सहायक उपनिरीक्षक, विजयपालस्य पत्नी बादशाहपुरनिवासिनी; सुनीलः रविन्द्रस्य पुत्रः महेन्द्रगढ्जिलानिवासी; हर्षप्रकाशः रामप्रकाशस्य पुत्रः ग्रेटरनोएडानिवासी; प्रशान्तः शंकरलालस्य पुत्रः धौलपुरजिलानिवासी; अनिशा जितेन्द्रस्य पुत्री फरीदाबादनिवासिनी; शिवानी रमेशस्य पुत्री नोएडानिवासिनी; परविन्दरः च इत्येते सर्वे घायलिताः अभवन्। सर्वे घायिताः समीपस्थेषु चिकित्सालयेषु भर्ती कृताः सन्ति तथा तेषाम् उपचारः प्रवर्तते।

हिन्दुस्थान समाचार