अलवर–टाइगर–अन्ताराष्ट्रिय–मैराथनम् - मुख्यमन्त्रिणा सह केन्द्रीय–मन्त्रिणा ध्वज–प्रदर्शनं कृतम्
अलवरनगरम्, ०८ फेब्रुवरीमासः (हि.स.)। वन्यजीव–संरक्षणस्य तथा स्वास्थ्य–सचेतनायाः सन्देशं वहन्त्या अलवर–टाइगर–अन्ताराष्ट्रिय–मैराथनस्य शुभारम्भः रविवासरे अलवरनगरस्य प्रताप–श्रवणालयात् अभवत्। अस्य मैराथनस्य मुख्यमन्त्रिणा भजनलाल–शर्मणा, केन्द्रीय–पर्य
Alwar


Alwar


Alwar


अलवर. हरी झंडी दिखाते अतिथि.


अलवरनगरम्, ०८ फेब्रुवरीमासः (हि.स.)। वन्यजीव–संरक्षणस्य तथा स्वास्थ्य–सचेतनायाः सन्देशं वहन्त्या अलवर–टाइगर–अन्ताराष्ट्रिय–मैराथनस्य शुभारम्भः रविवासरे अलवरनगरस्य प्रताप–श्रवणालयात् अभवत्। अस्य मैराथनस्य मुख्यमन्त्रिणा भजनलाल–शर्मणा, केन्द्रीय–पर्यावरण–वन–जलवायु–परिवर्तन–मन्त्रिणा भूपेन्द्र–यादवेन, उपमुख्यमन्त्रिणा दिया–कुमार्या तथा वन–पर्यावरण–राज्यमन्त्रिणा (स्वतन्त्र–प्रभारः) संजय–शर्मणा संयुक्तरूपेण ध्वज–प्रदर्शनं कृत्वा प्रारम्भः कृतः। अस्मिन् मैराथनधावने देश–विदेशेभ्यः आगतैः सह प्रायः अष्टादश–सहस्रं धावकाः सहभागिनः अभवन्।

अस्मिन् अवसरे मैराथनस्य ब्राण्ड–राजदूतः प्रसिद्धश्च अभिनेता रणदीप–हुड्डा अपि विशेषतया उपस्थितः आसीत्। कार्यक्रमे देश–विदेशेभ्यः आगताः धावकाः तथा बहुसंख्यकाः प्रतिभागिनः उत्साहेन भागं गृहीतवन्तः।

अन्ताराष्ट्रिय–स्तरीय–सहभागितायुक्ते अलवर–टाइगर–अन्ताराष्ट्रिय–अर्ध–मैराथनधावने विविध–देशेभ्यः आगताः धावकाः सम्मिलिताः, येन एतत् आयोजनम् अन्ताराष्ट्रिय–परिचयम् अलभत। आयोजन–स्थले प्रातःकालात् एव क्रीडा–प्रेमिणां, यूनां तथा सामान्य–नागरिकाणां महान् सम्मर्द: दृष्ट:। एतत् मैराथनधावनं २१ किलोमीटर, १० किलोमीटर, ५ किलोमीटर तथा २ किलोमीटर–दूरीषु आयोजिताभवत्। विजेतृ–प्रतिभागिनः मुख्यमन्त्रिणा पुरस्कृताः।

अस्मिन् अवसरे जनपद–समाहर्त्री अर्तिका–शुक्ला, आरक्षी–अधीक्षकः सुधीर–चौधरी, विधायकः जसवन्त–यादवः, रमेश–खीञ्ची इत्यादयः सह बहवः भाजपा–नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

उल्लेखनीयं यत् एषा अन्ताराष्ट्रिय–स्तरीयं मैराथनधावनम् अलवर–सांसद–क्रीडा–महोत्सवस्य अन्तर्गतं आयोजितम्। अस्य आयोजनस्य उद्देश्यं क्रीडानां प्रोत्साहनम्, व्याघ्र–संरक्षणम्, पर्यावरण–संरक्षणं तथा स्वस्थ–जीवन–शैलीं प्रवर्द्धयितुम् इति।

कार्यक्रम–काले प्रशासन–आरक्षी–वन–विभागैः सुदृढाः व्यवस्थाः कृताः। मैराथन–मार्गे चिकित्सक–दलानि, स्वयंसेवकाः तथा यातायात–व्यवस्था: सुचारु–रूपेण कार्यरताः आसन्। प्रतिभागिषु उत्साहः अनुशासनं च स्पष्टतया दृष्टम्।

हिन्दुस्थान समाचार / अंशु गुप्ता