Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 फरवरीमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वशर्मा अवदत् यत् तस्य कस्य वक्तव्यस्य कारणेन ऑलइण्डियामजलिसएइत्तेहादुलमुस्लिमीन इत्यस्य प्रमुखः असदुद्दीनओवैसी इत्यस्य मनसि आघातः जातः इति तस्मै स्पष्टं नास्ति। सः दृढतया उक्तवान् यत् तस्य वक्तव्यानि कदापि मुसलमानसमुदायस्य विरोधे न आसन्, अपितु बाङ्ग्लादेशदेशात् आगतानाम् अवैधघुसपैठकानां विरोधे एव आसन्।
माध्यमैः सह वार्तालापे ओवैसीकृतालोचनायाः उत्तरं दत्त्वा डॉ हिमन्तबिस्वशर्मा उक्तवान्, “मम कस्य वक्तव्यस्य कारणेन ओवैसी पीडितः अभवत् इति अहं न जानामि। अहं मुसलमानानां विषये किमपि न वदामि। अहं बाङ्ग्लादेशात् आगच्छन्तीनाम् अवैधप्रवेशकानां विरोधे एव वदामि।” तेन अपि उक्तं यत् एषः विषयः दलसीमां अतिक्रम्य सर्वैः मिलित्वा समाधानं कर्तव्यः।
मुख्यमन्त्री पुनः बलं दत्त्वा उक्तवान् यत् देशस्य सीमितसंसाधनानि निरोधरहितम् अवैधप्रवासनं वोढुं न समर्थानि। “ते अपि मया सह वक्तुम् अर्हन्ति। भारतदेशस्य जनानां कृते अपि पर्याप्तसंसाधनानि न सन्ति, वयं बाङ्ग्लादेशीयानां कृते एतानि कथं दातुं शक्नुमः?” इति तेन उक्तम्।
डॉ हिमन्तबिस्वशर्मा पुनरपि प्रतिपादितवान् यत् अस्य विषयस्य राजनैतिकविवादानां मध्ये अपि तस्य दृष्टिकोणः निरन्तरम् अवैधप्रवेशिनां तथा तस्य संसाधनेषु जनसंख्यायां च प्रभावस्य विषये एव केन्द्रितः अस्ति, न तु कस्यापि धार्मिकसमुदायस्य विरोधे वर्तते--------------------
हिन्दुस्थान समाचार