Enter your Email Address to subscribe to our newsletters

फरीदाबादम्, 09 फरवरीमासः (हि.स.)। फरीदाबाद नगरे प्रचलति ३९तमस्य अन्ताराष्ट्रियायां सूरजकुण्डशिल्पमेलायाम् अस्मिन् वर्षे सहभाजिदेशरूपेण सम्मिलितः मिस्रदेशः स्वस्य प्राचीनसभ्यतायाः आधुनिकहस्तशिल्पस्य च अद्वितीयसंगमेन दर्शकान् मन्त्रं मुग्धान् करोति।
अन्तरराष्ट्रीय पवेलियन इत्यत्र स्थितासु मिस्रदेशस्य स्टॉल्सु सज्जिताः कलावस्तवः न केवलं आकर्षणस्य केन्द्रं च सन्ति, अपितु मिस्रदेशस्य सांस्कृतिकमूलैः अपि जनान् परिचाययन्ति। मिस्रदेशस्य स्टॉल्सु जूटतन्तुभिः निर्मिताः हस्तनिर्मितबैगाः विशेषतः महिलानां पर्यटकानां मध्ये अत्यन्तं लोकप्रियाः भवन्ति।
स्टॉलसञ्चालकः अमील अवदत् यत् एते बैगाः विशेषकौशलयुक्तया कारीगर्या निर्मिताः सन्ति, तेषां मूल्यं गुणदर्शनयोः अनुसारं त्रिसहस्ररूप्यकात् पञ्चसहस्ररूप्यकपर्यन्तं निर्धारितम् अस्ति। अस्मिन्नेव स्थाने शिल्पकारः मुहम्मद अली इत्यनेन मिस्रदेशस्य प्रसिद्धया सिरेमिककलया निर्मितानां पात्राणां यथा कप, प्लेट, अन्यानि भाण्डानि च सुन्दरः संग्रहः प्रदर्शितः। एतेषु भाण्डेषु कृता सूक्ष्मनक्काशी विशिष्टवर्णाः च पर्यटकान् स्वकीयं प्रति आकर्षयन्ति।
मेलां प्रति आगच्छन्तः पर्यटकाः न केवलं क्रयविक्रयं कुर्वन्ति, अपि तु एतासु स्टॉल्सु गत्वा मिस्रदेशस्य कला, निर्माणप्रक्रिया, तत्रत्याः परम्पराः च विषये विस्तृतां सूचनां प्राप्नुवन्ति।
अस्मिन् वर्षे मिस्रदेशः मेलायाः प्रमुखाकर्षणेषु अन्यतमः अभवत्। मिस्रदेशस्य शिल्पकाराः एतत् सिद्धवन्तः यत् तेषां पारम्परिककला अद्यतनकाले अपि वैश्विकस्तरे दृढां स्वपरिचयं धारयति।--------------------
हिन्दुस्थान समाचार