Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 09 फ़रवरीमासः (हि.स.)। बेंगलुरु नगरस्य चिन्नास्वामी क्रिकेट क्रीडाङ्गणे इण्डियन प्रीमियर लीग (आईपीएल) क्रीडास्पर्धानां आयोजनसम्बन्धेन कर्नाटक राज्य क्रिकेट संघस्य (केएससीए) तथा रॉयल चैलेंजर्स बेंगलुरु (आरसीबी) इत्येतयोः पदाधिकाऱिणां प्रतिनिधिमण्डलं सोमवासरे राज्यस्य गृहमन्त्री डॉ. जी. परमेश्वरम् तस्य सदाशिवनगरस्थिते आवासीयकार्यालये समागत्य अभवत्।
अस्मिन् समागमे चिन्नास्वामी क्रीडाङ्गणे आवश्यकसुरक्षाव्यवस्थायाः सुनिश्चितीकरणाय विविधविषयेषु विस्तृतचर्चा अभवत्। न्यायमूर्ति माइकल डी. कुन्हा इत्यस्य प्रतिवेदने निर्दिष्टाः अनुशंसाः, ग्रेटर बेंगलुरु अथॉरिटी (जीबीए) तथा बेंगलुरु नगरस्य पुलिस आयुक्तस्य नेतृत्वेन सञ्चालितया समित्या प्रदत्ताः अनुशंसाश्च कार्यान्वयनस्य विषये अपि विचारविमर्शः कृतः।
गृहमन्त्री डॉ. जी. परमेश्वरः अवदत् यत् अस्मिन् विषये आगामि द्वादश फरवरी दिने सभा आयोजिता भविष्यति। तदनन्तरं मुख्यमन्त्रिणा सह चर्चा कृत्वा आईपीएल क्रीडानां आयोजनं तथा सुरक्षाव्यवस्थायाः विषये अन्तिमनिर्णयः स्वीक्रियते इति सः उक्तवान्।
अस्मिन् अवसरे कर्नाटक राज्य क्रिकेट संघस्य अध्यक्षः वेंकटेश प्रसादः, पदाधिकारी विनय मृत्युंजयः, रॉयल चैलेंजर्स बेंगलुरु इत्यस्य प्रतिनिधिः राजेश मेननः तथा केएससीए आरसीबी इत्येतयोः अन्ये पदाधिकारिणोऽपि उपस्थिताः आसन्।--------------
हिन्दुस्थान समाचार