Enter your Email Address to subscribe to our newsletters

छिन्दवाडानगरम्, ०९ फरवरीमासः (हि.स.)। मुख्यमंत्री–तीर्थ–दर्शन–योजनायाः अन्तर्गतं मध्यप्रदेशस्य छिन्दवाडा–जनपदात् चयनितान् तीर्थयात्रिण: द्वारका–सोमनाथ–तीर्थ–यात्रायै प्रेषयितुं विशेष–रेलयानम् अद्य सोमवासरे सायं ०७:३० वादने छिन्दवाडा–रेल–स्थानकात् प्रस्थानं करिष्यति।
निर्धारित–कार्यक्रमानुसारं सर्वेषां चयनितानां तीर्थयात्रिणां सायं ०६:३० वादनात् पूर्वं छिन्दवाडा–रेल–स्थानके उपस्थिति: अनिवार्या अस्ति। उपायुक्त: हरेंद्र–नारायणेन यात्रिकान् स्थानकपर्यन्तं आनयनस्य तथा विशेष–रेलयाने आरोहणस्य समग्राः व्यवस्थाः दायित्वं च नगर–निगम–आयुक्ताय तथा मुख्य–कार्यपालन–अधिकारिणे समर्पितम् अस्ति।
उप–उपायुक्त: तथा प्रभारी–अधिकारी रमेश–कुमार–मेहरा अवदत् यत् तीर्थयात्रायै गच्छन्तः सर्वे चयनिताः यात्रिण: स्वसह यात्रापत्रकं तथा छायाचित्रयुक्त–परिचय–पत्रस्य मूल–प्रति—यथा आधार–पत्रम्, मतदाता–परिचय–पत्रम् अथवा पैनपत्रम्—एतेषु किमपि एकं अनिवार्यतया स्वसह आनयन्तु। नियत–तिथौ नियत–समये च विशेष–रेलयानं छिन्दवाडा–रेलवे–स्थानकात् द्वारका–सोमनाथ–तीर्थ–यात्रायै प्रस्थानं करिष्यति। सम्बन्धित–अधिकारिण: प्रति अपि निर्देशाः दत्ताः यत् स्व–स्व–क्षेत्रेषु सर्वेषां चयनित–यात्रिण: प्रति रेलयानस्य प्रस्थान–स्थलम्, समय–सारणीम् तथा आवश्यक–दिशा–निर्देशान् पूर्वमेव बोधयन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता