विद्यार्थिनां सफलतायाः कामनायै वैदिकयज्ञः संपन्नः
हरिद्वारम्, 09 फ़रवरीमासः (हि.स.)। डॉ. हरिराम आर्य इण्टर कॉलेज, मायापुर इत्यस्मिन् विद्यालये बोर्ड तथा गृहपरीक्षासु सम्मिलितानां छात्राणां सफलतायाः कामनया वैदिकयज्ञस्य आयोजनं कृतम्। अस्य यज्ञस्य संचालनं वानप्रस्थ आश्रम, आर्य नगर, ज्वालापुर इत्यस्य
यज्ञ करते हुए शिक्षक व छात्र-छात्राएं


हरिद्वारम्, 09 फ़रवरीमासः (हि.स.)।

डॉ. हरिराम आर्य इण्टर कॉलेज, मायापुर इत्यस्मिन् विद्यालये बोर्ड तथा गृहपरीक्षासु सम्मिलितानां छात्राणां सफलतायाः कामनया वैदिकयज्ञस्य आयोजनं कृतम्। अस्य यज्ञस्य संचालनं वानप्रस्थ आश्रम, आर्य नगर, ज्वालापुर इत्यस्य स्वामी तेजस मुनिना कृतम्।

स्वामी तेजस मुनिः अवदत् यत् एषः यज्ञः विशेषतया दशमकक्षायाः द्वादशकक्षायाः च परीक्षार्थिनां सफलतायै तथा द्वादशकक्षायाः छात्राणां विदाय्याः अवसरि आयोजितः। तेन उक्तं यत् यज्ञेन मानसिकैकाग्रता वर्धते सकारात्मक-ऊर्जा च प्राप्यते।

यज्ञानन्तरं पण्डित राजबल शर्मा वैदिक न्यासेन आयोजितायाः आर्यसंस्कृति साहित्यज्ञानपरीक्षायाः परिणामाः घोषिताः। अष्टमकक्षायाः सिमरन सैनी प्रथमस्थानं प्राप्तवती, सप्तमकक्षायाः गोरी द्वितीयस्थानं लब्धवती, तथा अष्टमकक्षायाः खुशी वर्मा षष्ठकक्षायाः आस्था च संयुक्तरूपेण तृतीयस्थानं प्राप्तवत्यौ। विजेतृभ्यः क्रमशः पञ्चसहस्र, त्रिसहस्र, द्विसहस्र रूप्यकाणां नगदपुरस्काराः प्रदत्ताः।

कार्यक्रमे वानप्रस्थ आश्रमस्य विद्यालयस्य च अध्यापकाः, पदाधिकारिणः, छात्राः छात्र्यश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार