गुवाहाट्यां ‘लौहपुरुष राष्ट्रियैकात्मता पुरस्कार’ समारोहे राज्यपालःसम्मिलितः
गुवाहाटी, 01 मार्चमासः (हि.स.)। लक्ष्मण प्रसाद आचार्यः असमराज्यस्य राज्यपालः रविवासरे गुवाहाटी स्थिते लोहिया लाइंस गुवाहाटी ऑडिटोरियम इत्यत्र भारत भारती द्वारा आयोजिते “लौहपुरुष राष्ट्रीय एकात्मता पुरस्कार” वितरणसमारोहे सहभागी अभवत्। अस्मिन् अवस
गुवाहाटी में ‘लौहपुरुष राष्ट्रीय एकात्मता पुरस्कार’ समारोह में शामिल राज्यपाल लक्ष्मण प्रसाद आचार्य की तस्वीर।


गुवाहाटी, 01 मार्चमासः (हि.स.)।

लक्ष्मण प्रसाद आचार्यः असमराज्यस्य राज्यपालः रविवासरे गुवाहाटी स्थिते लोहिया लाइंस गुवाहाटी ऑडिटोरियम इत्यत्र भारत भारती द्वारा आयोजिते “लौहपुरुष राष्ट्रीय एकात्मता पुरस्कार” वितरणसमारोहे सहभागी अभवत्।

अस्मिन् अवसरे राज्यपालः उक्तवान् यत् एषः समारोहः एकतायाः राष्ट्रियभावनायाः सामूहिकसंकल्पस्य च उत्सवः अस्ति। पुरस्कारप्राप्तेभ्यः अभिनन्दनं कृत्वा स अवदत् यत् सरदार वल्लभभाई पटेल नाम्ना प्रदीयमानः अयं सम्मानः अस्मान् भारतस्य एकतायाः अखण्डतायाः च विषये तस्य अद्वितीययोगदानं स्मारयति। स्वातन्त्र्यकाले यदा देशः राजनैतिकविखण्डनस्य संकटं समभवत्, तदा तस्य साहसदूरदर्शितादृढसंकल्पैः पञ्चशताधिकानां रियासतां एकीकरणं सम्पन्नं जातम् तथा दृढैक्ययुक्तभारतस्य आधारः स्थापितः।

राज्यपालः अवदत् यत् एकता केवलं भौगोलिकसीमानां संयोजनं न, अपितु मनसां सामञ्जस्यं यत् भाषाधर्मसंस्कृतिक्षेत्रीयभेदान् अतिक्रम्य समाजं संयोजयति। भारतस्य स्थायिशक्तिः “विविधतायां एकता” इति परम्परायां निहिता अस्ति। “सर्वे भवन्तु सुखिनः” तथा “वसुधैव कुटुम्बकम्” इत्यादीनां आदर्शानां उल्लेखं कृत्वा स अवदत् यत् एते मूल्याः राष्ट्राय समावेशीकरुणामयदृष्टिकोणं ददति।

नरेंद्र मोदी दृष्टिकोणस्य उल्लेखं कृत्वा राज्यपालः अवदत् यत् विकसितभारतनिर्माणाय विकासविरासतयोः समन्वयः आवश्यकः। असमराज्यं विविधक्षेत्रेषु निरन्तरं प्रगतिं करोति, यस्मिन् सामाजिकसंगठनानां समर्पितनागरिकाणां च महत्त्वपूर्णं योगदानम् अस्ति।

सार्वजनिकसेवां महत्कर्म इति निरूप्य राज्यपालः युवान् प्रति सेवासंवेदनशीलतासामाजिकउत्तरदायित्वानि जीवनमार्गदर्शकतत्त्वरूपेण स्वीकरोतु इति आह्वानम् अकरोत्। भारत भारती संस्थायाः राष्ट्रियैकीकरणसांस्कृतिकसद्भावदेशभक्तिमूल्यप्रसारणप्रयत्नानां स प्रशंसां कृतवान्।

कार्यक्रमे राष्ट्रियाध्यक्षः विनयपत्राले, राष्ट्रियसचिवः रुद्रनारायणतिवारी, ट्रस्टाध्यक्षः सुभाषधवन, ईशानभारतीाध्यक्षः भास्करदत्तगोस्वामी, संयोजकः शोभनव्यास इत्यादयः अन्ये गणमान्यजनाः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार