असमस्य मुख्यमंत्री स्वबिहार समकक्षाय नीतीश कुमाराय अददात् जन्मदिनस्य शुभकामनाः
गुवाहाटी, 01 मार्चमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा अद्य बिहारराज्यस्य मुख्यमन्त्रिणे नीतीश कुमार जन्मदिनस्य हार्दिकाः शुभकामनाः अददात्। स्वस्य सामाजिकमाध्यमसन्देशे डॉ. सरमाणेन उक्तं यत् नीतीशकुमारस्य दूरदर्शिनः नेतृत्व
Bihar CM Nitish Kumar.


गुवाहाटी, 01 मार्चमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा अद्य बिहारराज्यस्य मुख्यमन्त्रिणे नीतीश कुमार जन्मदिनस्य हार्दिकाः शुभकामनाः अददात्।

स्वस्य सामाजिकमाध्यमसन्देशे डॉ. सरमाणेन उक्तं यत् नीतीशकुमारस्य दूरदर्शिनः नेतृत्वे बिहारराज्येन जनकेन्द्रितसुशासनस्य नूतनः युगः अनुभूतः अस्ति, तथा राज्यं प्रगति-विकास-समावेशीवृद्धीनां दिशि निरन्तरं नवीनाः उन्नतयः स्पृशति।

मुख्यमन्त्री कामाख्या मंदिर तथा श्रीमंत शंकरदेव महापुरुषं स्मृत्वा तयोः अनुग्रहेण तस्य उत्तमस्वास्थ्यस्य दीर्घायुषः च प्रार्थनां कृतवान्। सः अपि अवदत् यत् सः जनसेवाकार्ये निरन्तरं समर्पितः भवतु।

हिन्दुस्थान समाचार