Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 01 मार्चमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा भारतीय जनतादलम्
असमप्रदेशस्य उपाध्यक्षं तथा असम-इण्डस्ट्रीज-डेवलपमेण्ट-कॉर्पोरेशनस्य अध्यक्षं तपनकुमार-गोगोई महोदयम् जन्मदिनस्य हार्दिकाः शुभकामनाः प्रेषितवान्।
स्वस्य सामाजिकमाध्यमसन्देशे मुख्यमन्त्री अवदत् यत् गोगोई महोदयः राज्यस्य औद्योगिकविकासाय वेगं दातुं निरन्तरं प्रयत्नशीलः अस्ति। तेन संगठनस्य स्थलीयस्तरे सुदृढीकरणे अपि महत्त्वपूर्णा भूमिका निर्वहिता अस्ति।
सः कामाख्या मंदिर मातरं तथा श्रीमंत शंकरदेव महापुरुषं प्रति प्रार्थनां कृतवान् यत् तौ तस्मै उत्तमस्वास्थ्यं दीर्घायुषं च प्रदद्याताम्, येन सः एवमेव जनसेवायां सक्रियः भवेत्।
हिन्दुस्थान समाचार