मुख्यमंत्री सुक्खूरददात् सुजानपुर होली उत्सवस्य वर्धापनानि, देशवासिभ्यः आमंत्रणम्
शिमला, 01 मार्चमासः (हि.स.)। ठाकुर सुखविन्द्र सिंह सुक्खू मुख्यमन्त्री सर्वान् प्रदेशवासिनः देशवासिनः च सुजानपुर नगरे आयोज्यमानस्य राष्ट्रियस्तरीय-होली-महोत्सवस्य हार्दिकाः शुभकामनाः प्रेषितवान्। सः अवदत् यत् सुजानपुरस्य होली-महोत्सवः बहुवर्षेभ
मुख्यमंत्री ठाकुर सुखविन्द्र सिंह सुक्खू।


शिमला, 01 मार्चमासः (हि.स.)।

ठाकुर सुखविन्द्र सिंह सुक्खू मुख्यमन्त्री सर्वान् प्रदेशवासिनः देशवासिनः च सुजानपुर नगरे आयोज्यमानस्य राष्ट्रियस्तरीय-होली-महोत्सवस्य हार्दिकाः शुभकामनाः प्रेषितवान्।

सः अवदत् यत् सुजानपुरस्य होली-महोत्सवः बहुवर्षेभ्यः अस्माकं समृद्धसांस्कृतिक-धरोहरायाः सामाजिक-सौहार्दस्य परस्पर-भ्रातृत्वस्य च जीवंतप्रतीकः अस्ति।

स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् अयं ऐतिहासिकः उत्सवः पीढीभ्यः पीढीपर्यन्तं प्रेम-सहयोग-मिलन-परम्परां संवहन् अस्ति। सुजानपुरस्य होली न केवलं हिमाचल प्रदेश राज्यस्य परिचायकः, अपितु राष्ट्रियैक्यस्य सांस्कृतिकविविधतायाः च प्रतीकत्वं प्राप्तवती अस्ति।

तेन उक्तं यत् अस्मिन् राष्ट्रीयस्तरीये होली-महोत्सवे देशस्य विभिन्नप्रदेशेभ्यः जनाः सहभागित्वं कुर्वन्ति, येन प्रदेशस्य संस्कृति-लोकपरम्परा-कलानां व्यापकपरिचयः भवति।

मुख्यमन्त्री समस्तान् देशवासिनः अस्मिन् भव्ये उत्सवे सहभागित्वाय हार्दिकं निमन्त्रणं दत्त्वा अवदत् यत् सुजानपुरस्य पावनभूमौ आयोज्यमानः अयं होली-मेलः परस्पर-प्रेम-सद्भावस्य सन्देशं प्रसारयति।

उल्लेखनीयम् अस्ति यत् सुजानपुरे राष्ट्रियस्तरीय-होली-महोत्सवः अद्य आरभ्यते।

---------------

हिन्दुस्थान समाचार