Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०१ मार्चमासः (हि.स.) ।राष्ट्रपति-द्रौपदी-मुर्मु सोमवासरे इंदिरा–गांधी–इंडोर–प्रांगणे आयोज्यमाने कार्यक्रमे होली–दिवाली–उपलक्ष्ये दिल्ली–सर्वे राशन–कार्ड–धारक–कुटुम्बेभ्य: प्रतिवर्षं द्वौ मुफ्त–एलपीजी–सिलिण्डर-इत्येतौ प्रदातुं योजना: औपचारिकरूपेण शुभारम्भं करिष्यति।
मुख्यमन्त्री रेखा गुप्ता रविवासरे विज्ञप्तिं प्रकाशयित्वा अवदत् यत् अस्या: योजनाया: लाभः प्रत्यक्ष–लाभ–हस्तांतरण–(डायरेक्ट–बेनेफिट–ट्रांसफर) प्रणालीना प्रदत्तः भविष्यति। एषा राशि: एकस्य एलपीजी–सिलिण्डरस्य वर्तमान–मूल्येन समकक्षा भविष्यति, तथा कुटुम्बस्य मुख्यस्य आधार–संबद्ध–धनागारे प्रविष्टा भविष्यति, यस्य नाम्ना राशन–पत्रकं निर्गमिष्यति। प्राय: १५.५० लक्षाणां राशन–कार्ड–धारक–कुटुम्बानां आवृत्त्यै एषा योजना निर्मिता यत् भोजन–पाक–ईंधन–व्ययस्य वित्तीय–भारं न्यूनीकर्तुं, तथा कुटुम्बान् सम्मानपूर्वकं सुखेन च उत्सव–आनन्दाय सक्षमं कर्तुं अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता