Enter your Email Address to subscribe to our newsletters

दरभंगा।, 01 मार्चमासः (हि.स.)।
नेहरू स्टेडियम क्रीडाङ्गणे अद्य “मिथिलालोकउत्सव २०२५ २६” इत्यस्य भव्यः शुभारम्भः दीपप्रज्वलनेन अभवत्। उद्घाटनसमारोहे अरुण शंकर प्रसाद बिहारसरकारस्य पर्यटनकलासंस्कृतिविभागमन्त्री, मदन सहनी मन्त्री, डॉ गोपाल जी ठाकुर सांसदः, धर्मशिला गुप्ता राज्यसभासांसदः, संजय सरावगी विधायकः सह प्रदेशाध्यक्षः भाजपा, हरि सहनी विधानपार्षदः, सीता देवी जिलापरिषदध्यक्षा, कौशल कुमार जिलाधिकारी च संयुक्तरूपेण दीपं प्रज्वाल्य कार्यक्रमस्य विधिवत् उद्घाटनम् अकुर्वन्।
उद्घाटनानन्तरं सर्वे अतिथयः विविधविभागैः स्थानीयउद्यमिभिः च स्थापितानां स्टॉलानां निरीक्षणं कृत्वा प्रदर्शितानां उत्पादानां कलाकृतीनां च प्रशंसाम् अकुर्वन्। स्टॉलस्थलेषु मिथिलाचित्रकला, हस्तशिल्पानि, स्थानीयभोजनानि पारम्परिककलारूपाणि च विशेषाकर्षणस्य केन्द्रम् आसन्।
जिलाधिकारी कौशलकुमारः स्वीयसम्बोधने उक्तवान् यत् अयं उत्सवः गतवर्षेषु अपि पर्यटन विभाग बिहार सरकार तथा दरभङ्गाजिलाप्रशासनस्य संयुक्ततत्त्वावधानेन सफलतया आयोजितः अस्ति। अस्य मुख्योद्देश्यः दरभङ्गामिथिलाक्षेत्रयोः समृद्धाः सांस्कृतिकपरम्पराः लोककलाः लोकजीवनं पारम्परिकविरासत् च विविधमाध्यमैः प्रदर्शयितुम् अस्ति। एषः मंचः स्थानीयकलाकारान् स्वप्रतिभां प्रस्तोतुं सशक्तम् अवसरं ददाति, येन ते सम्मानपूर्वकं वैश्विकपहचानं प्राप्तुं शक्नुवन्ति।
महोत्सवस्य अन्तर्गतं नौकायनस्पर्धा, कबड्डीस्पर्धा, मिथिलाग्राममञ्चः, लोकगाथाप्रस्तुति:, पारम्परिकमिथिलाभित्तिचित्रस्पर्धा, विविधविभागानां प्रदर्शनी च इत्यादयः बहवः आकर्षककार्यक्रमाः प्रस्ताविताः सन्ति। एतेषां माध्यमेन जिलाप्रशासनस्य संदेशः अयम् यत् मिथिलायाः सांस्कृतिकविरासतस्य आधुनिकार्थे संरक्षणं संवर्द्धनं च अस्माकं सर्वेषां सामूहिकी जिम्मेदारी अस्ति।
विधायकः संजयसरावगी दरभङ्गानगरस्य विकासं सांस्कृतिकउन्नयनं च प्रकाश्य नवपीढीं स्वविरासत् रक्षितुं आह्वानम् अकरोत्। मन्त्री मदनसहनी राज्यसर्वकारस्य कल्याणकारीयोजनाः मिथिलाञ्चलस्य गौरवशालिइतिहासं च विषये विचारान् व्यक्तवान्। सांसदः डॉ गोपालजीठाकुरः, राज्यसभासांसदः धर्मशिलागुप्ता, विधानपार्षदः हरिसहनी च मिथिलायाः समृद्धपरम्परासांस्कृतिकधरोहरसंरक्षणे बलं न्यवेदयन्।
जिलाप्रशासनं जिल्लानिवासिभ्यः अधिकसंख्यया उपस्थित्य उत्सवस्य सफलतां सुनिश्चितुं प्रार्थनां कृतवान्। मिथिलालोकउत्सवस्य अन्तर्गतं राष्ट्रियराज्यस्तरीयस्थानीयख्यातिप्राप्तकलाकाराः आमन्त्रिताः सन्ति, येन आगामिदिनेषु सांस्कृतिककार्यक्रमाणां विशेषदृश्यं दृश्यते।
---------------
हिन्दुस्थान समाचार