Enter your Email Address to subscribe to our newsletters

औरैया, 01 मार्चमासः (हि.स.)।
उत्तरप्रदेशस्य औरैयाजनपदे एकया विचित्रसेवासमित्या गतवर्षवत् अस्मिन् वर्षे अपि समितेः अध्यक्षस्य राजीवपोरवालस्य रानू इति प्रसिद्धस्य नेतृत्वे होलीपर्वणः अवसरस्य निमित्तं रविवासरे प्रातः नववादने समितेः ग्राम्यकार्यालये धीरजपुरे रंगारङ्गकार्यक्रमस्य आयोजनं कृतम्।
अस्मिन् कार्यक्रमे ग्राम्यप्रदेशस्य गुह्यप्रतिभाभिः आकर्षकनृत्यप्रदर्शनानि प्रदत्तानि तथा परस्परं गुलालं लेपयित्वा होलीउत्सवः उत्साहपूर्वकं समाचरितः।
अस्मिन् अवसरे समितेः पक्षतः लोहापीटोसमुदायस्य अन्येषां च आवश्यकतान्वितग्रामीणबालकानां सह हर्षविभागः कृतः। तेषां पिचकारी रंगाः मिठाई नमकीन अन्यानि खाद्यद्रव्याणि च वितरितानि।
समितेः संस्थापकः आनन्दनाथगुप्तः उक्तवान् यत् वर्तमानमहङ्गाईकाले जनाः प्रमुखोत्सवान् प्रायः स्वपरिवारपर्यन्तमेव सीमितीकुर्वन्ति। आर्थिकदृष्ट्या दुर्बलवर्गस्य अनेके परिवाराः सन्ति येषां पारम्परिकोत्सवानां सम्यग्ज्ञानं उत्सवसमाचरणस्य अवसरश्च न लभ्यते। ये च दैनिकवेतनकर्मणा जीवनं यापयन्ति तेषां बालकाः प्रायः उत्सवसुखात् वञ्चिताः भवन्ति।
तेन उक्तं यत् आवश्यकतान्वितजनैः बालकैश्च सह हर्षविभागेन समितेः सदस्याः आत्मिकसन्तोषं महानन्दं च अनुभवन्ति। सर्वसमाजस्य निर्धनकन्यकानां विवाहे यथाशक्ति सहयोगः तथा यथार्थावश्यकतान्वितजनसेवा च समित्या अग्रे अपि निरन्तरं क्रियते भविष्यति।
कार्यक्रमे प्रमुखरूपेण हिमांशुदुबे सतीशपोरवालः शिवानी सृष्टिः सौम्या गौरवः पायल् अवनी आरुषिः दिव्या सिमरन इत्यादयः प्रायः अर्धशतसंख्याकाः आवश्यकतान्वितबालकाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार