जन आशीर्वाद यात्रायाः द्वितीय दिने पञ्च क्षेत्राणां भ्रमणं करिष्यति मुख्यमंत्री
गुवाहाटी, 01 मार्चमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा उक्तवान् यत् भारतीय जनतादलस्य ‘जनआशीर्वादयात्रा’ इत्यस्य द्वितीयः दिवसः अद्य शीघ्रमेव प्रारभ्यते। स्वस्य सामाजिकमाध्यमसन्देशे सः अवदत् यत् एषा यात्रा केवलं राजनैतिक-अभि
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर


गुवाहाटी, 01 मार्चमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा उक्तवान् यत् भारतीय जनतादलस्य ‘जनआशीर्वादयात्रा’ इत्यस्य द्वितीयः दिवसः अद्य शीघ्रमेव प्रारभ्यते। स्वस्य सामाजिकमाध्यमसन्देशे सः अवदत् यत् एषा यात्रा केवलं राजनैतिक-अभियानं न, अपितु असमस्य विकास-एकता-प्रगतेः प्रति दृढसंकल्पस्य यात्रा अस्ति।

मुख्यमन्त्री उक्तवान् यत् जनतायाः प्रेम, विश्वास, आशीर्वादं च संगृह्य एषा यात्रा अग्रे प्रचलति। द्वितीयदिवसे सः जागीरोड, मोरीगांव, रोहा, नगांव, बरहमपुर-क्षेत्रेषु भ्रमणं करिष्यति तथा स्थानीयजनैः सह मिलित्वा तेषां आशीर्वादं, सुझावं, समर्थनं च प्राप्स्यति।

तेन उक्तं यत् जनतायाः मार्गदर्शनं सहयोगश्च सर्वकारं अधिकप्रतिबद्धतया कार्यं कर्तुं प्रेरयति। मुख्यमन्त्री अवदत् यत् एषा यात्रा नरेन्द्र मोदिनः दृष्टिकोनं अग्रे नेतुं तथा असमं अधिकं सशक्तं समृद्धं च कर्तुं दिशि महत्त्वपूर्णः पदक्षेपः अस्ति। सः जनान् स्वस्वक्षेत्रेषु यात्रायां सहभागित्वाय आग्रहं कृतवान्।

हिन्दुस्थान समाचार