Enter your Email Address to subscribe to our newsletters

कोलकाता, 1 मार्चमासः (हि.स.)।
ईस्ट-कोस्ट-रेलवे-संस्थया पुरी-स्थानके प्रचलित-पुनर्निर्माण-कार्यस्य कारणात् आगामी-त्रि-मासान् यावत् अनेकाशां रेलयानानां निरसनस्य निर्णयः कृतः अस्ति। एतत् कार्यं अमृत-भारत-योजना-अन्तर्गतं क्रियते।
खुर्दा-रोड-मण्डले विभिन्न-तिथिषु षट् पुरी-गामिन्यः रेलयानाः निरस्ताः सन्ति, तथा त्रिंशत् रेलयानानां मार्गाः आंशिक-रूपेण संक्षिप्ताः कृताः सन्ति।
निर्गत-विज्ञप्त्याः अनुसारं(०२८३९) शालीमार–पुरी-विशेष-रेलयानं १५, २२, २९ मार्च; ५, १२, १९, २६ अप्रैल; ३, १० मई-दिनेषु निरस्तं भविष्यति।
(०२८४०) पुरी–शालीमार-विशेष-रेलयानं १६, २३, ३० मार्च; ६, १३, २०, २७ अप्रैल; ४, ११ मई-दिनेषु निरस्तं भविष्यति।
(०८०११) भंजपुर–पुरी-विशेष-रेलयानं मार्च-अप्रैल-मई-मासयोः निर्दिष्ट-विभिन्न-तिथिषु निरस्तं भविष्यति।
(०८०१२) पुरी–भंजपुर-विशेष-रेलयानम् अपि उक्त-अवधौ विभिन्न-तिथिषु निरस्तं भविष्यति।
(६८४०९) खुर्दा-रोड–पुरी-मेमू-रेलयानं १५ मार्चतः १५ मई-पर्यन्तं निरस्तं भविष्यति।
(६८४१०) पुरी–खुर्दा-रोड-मेमू-रेलयानम् अपि तस्मिन्नेव अवधौ निरस्तं भविष्यति।
अतिरिक्ततया (१२१४५/१२१४६) लोकमान्य-तिलक–पुरी-एक्सप्रेस तथा (२२२०१/२२२०२) सियालदह–पुरी-दुरन्तो-एक्सप्रेस सहितानि अन्यानि महत्त्वपूर्णानि रेलयानानि आंशिक-रूपेण संक्षिप्त-मार्गेषु सञ्चालितानि भविष्यन्ति।
माध्यमिक-उच्च-माध्यमिक-परीक्षाणां समाप्तेः अनन्तरं अवकाश-काले पुरी-नगर्यां भगवान् जगन्नाथस्य दर्शनार्थं बहवः श्रद्धालवः पर्यटकाश्च गच्छन्ति। एतादृशे समये रेलयानानां निरसनात् यात्रिषु निराशा दृश्यते।
---------------
हिन्दुस्थान समाचार