Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०१ मार्चमास: (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ: रङ्गानां पावन-पर्वणि ‘होली’ अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभाशया: प्रदत्तवान्। स: अवदत् यत् ‘होलिकोत्सवः’ भारतीय–संस्कृतेः जीवन्तः उत्सवः अस्ति, यः सामाजिक–समरसतां, आत्मीयतां, उत्साहं चैक्यभावनां च अधिकं सुदृढयति। एतत् पर्व केवलं वर्णानां न, अपि तु परस्पर–सम्मानस्य, सौहार्दस्य, सहयोगस्य च प्रतीकम् अस्ति।
स्वीय–शुभाशय–सन्देशे मुख्यमन्त्री अवदत् यत् विविधताभिः सम्पन्ने उत्तरप्रदेशे अस्माकं सहभाग–परम्पराः लोक–उत्सवाश्च समाजस्य सर्वान् वर्गान् संयोजयन्ति। ‘होली’ द्वेषात्, भेदभावात्, नकारात्मक–प्रवृत्तिभ्यश्च ऊर्ध्वं गत्वा प्रेम्णा, विश्वासेन, सकारात्मकतया च अग्रे गन्तुं प्रेरयति।
मुख्यमन्त्री प्रदेशवासिनः आह्वयत् यत् उत्सवं हर्षोल्लासेन, शालीनतया, मर्यादया च आचरन्तु। कस्यापि प्रकारस्य असतृयवार्ता:, उद्दीपनानि, असामाजिक–क्रियाः च परित्यजन्तु तथा प्रशासनस्य सहयोगं कुर्वन्तु। सर्वेषु जनपदेषु सुरक्षा–व्यवस्था सुदृढीकृता अस्ति, येन रङ्गोत्सवः शान्तिपूर्णे सुरक्षिते च वातावरणे सम्पन्नो भवेत्।
स अवदत् यत् ‘होली’ समाजस्य दुर्बल–वञ्चित–आवश्यकताग्रस्त–जनान् प्रति संवेदनशीलतां सहयोग–भावनां च अपि सुदृढयति। उत्सवस्य यथार्थ–आनन्दः तदैव सार्थकः भवति यदा स सर्वेषां जीवनेषु प्राप्यते। तेन प्रदेशवासिनः ‘वोकल–फॉर–लोकल’ अभियानं प्रोत्साहयितुं, स्थानीय–उत्पादानां उपयोगं कर्तुं च आहूताः, येन प्रदेशस्य हस्तशिल्पिनां लघु–उद्यमिनां च जीवनेषु समृद्धेः वर्णाः पूरिता: भवेयु:।
अन्ते मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशः अद्य विकासे, आजीविका–सृजने, सुरक्षायां, सुशासने, सामाजिक–सद्भावे च नूतनान् मानकान् स्थापयति। एतस्मिन् सन्दर्भे ‘होली’–सदृशः उत्सवः अस्माकं सामूहिक–संकल्पं अधिकं दृढयति यत् वयं सुरक्षितं, समृद्धं, सम्मानजनकं च समाजं निर्मास्यामः। स विश्वासं व्यक्तवान् यत् एतत् पर्व प्रदेशे नव–ऊर्जां, नव–प्रेरणां, सकारात्मक–चिन्तनस्य च संचारं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता