Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० मार्चमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे केन्द्रीय-औद्योगिक-सुरक्षा-बलस्य (सीआईएसएफ) स्थापना-दिवसस्य अवसरे सर्वेभ्यः बलस्य कर्मिभ्यः शुभाशंसाः अयच्छत्। तेन उक्तं यत् देशस्य महत्त्वपूर्ण-आधारभूत-संरचनानां सुरक्षायां सीआईएसएफ-बलस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
प्रधानमन्त्रिणा ‘एक्स’ इत्यत्र स्वसन्देशे उक्तं यत् सीआईएसएफ दृढ-संकल्पेन, अनुशासनेन तथा समर्पणेन च प्रसिद्धः अस्ति। अस्य बलस्य सैनिका: सम्पूर्णे देशे महत्त्वपूर्णानां संस्थानानां परिसम्पत्तिनां च सुरक्षायां महत्त्वपूर्णां भूमिकां निर्वहन्ति। प्रधानमन्त्री अवदत् यत् सीआईएसएफ-कर्मिणां कर्तव्यनिष्ठा भारतस्य सुरक्षा-प्रगत्योः महत्त्वपूर्णं योगदानं ददाति।
उल्लेखनीयम् अस्ति यत् केन्द्रीय-औद्योगिक-सुरक्षा-बलस्य स्थापना १० मार्चमासे १९६९ तमे वर्षे अभवत्। एतत् बलं देशस्य प्रमुख-औद्योगिक-प्रतिष्ठानानां, विमानपत्तनानां, मेट्रो-जालस्य, बन्दरगाहानां तथा अन्येषां महत्त्वपूर्ण-आधारभूत-संरचनानां सुरक्षायाः दायित्वं वहति। वर्तमानकाले सीआईएसएफ देशस्य अनेकेषु संवेदनशील-संस्थानेषु सुरक्षायां नियुक्तम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता