Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, १० मार्चमासः (हि.स.)। नगर–निगम–मण्डीक्षेत्रे शहरी–विकास–विभागेन सिटिजन–सेवा–पटलस्य एकदिवसीया कार्यशाला नगर–निगमस्य आयुक्तेन रोहित–राठौरेण शुभारब्धा। कार्यशालायाः महत्त्वं विवृण्वन् सः अवदत् यत् अद्य नगर–निकायैः प्रदीयमानाः सर्वाः सेवाः सुलभतया प्रदातुं प्रदेश–सर्वकारेण एतत् पटलं प्रारब्धम् अस्ति। अनेन नगरीय–निवासिनः गृहे उपविश्य एव एतानि सौविध्यानि प्राप्तुं शक्नुवन्ति।
अद्य सर्वे विभागाः डिजिटल–माध्यमेन कार्यं कुर्वन्ति, अतः अधुना नगरीय–निकायानां सम्पूर्णा कार्यप्रणाली अपि डिजिटल–रूपेण विकसिताऽस्ति। प्रत्येकस्मिन् जनपदे एतादृशा: प्रशिक्षण–कार्यक्रमा: आयोज्यन्ते।
अस्यां कार्यशालायां प्रशिक्षकत्वेन आगत्य मिस् राधिका तथा मिस् दिव्या इत्येताभ्यां पटलस्य विषये विस्तरेण विवरणं प्रदत्तम्। प्रशिक्षण–कार्यक्रमे मण्डी–जनपदस्य समस्त–नगर–निकायानां कर्मचारीभिः सह सुन्दरनगरस्य वरिष्ठ–कार्यकारी–अधिकारी ललित–कुमार: अपि उपस्थितः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता