Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ मार्चमासः। इतिहासे ११ मार्चमासे अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः स्मरणीयः मन्यते। तासु प्रमुखा घटना २०११ तमे वर्षे जापानदेशे जातः भीषणः भूकम्पः तदनन्तरं च आगता विनाशकारी सुनामी अस्ति, या व्यापकं विनाशं अजनयत्।
११ मार्चमासे २०११ तमे वर्षे जापानदेशस्य प्रशान्त–तटस्य समीपे तोहोकु–प्रदेशे समुद्रान्तर्गते ९ तीव्रतायुक्तः शक्तिशाली भूकम्पः अभवत्। ततः उत्पन्नाभिः प्रलयंकारीभिः सुनामी–तरङ्गै: व्यापकः विनाशः अभवत्। अस्यां आपदायां १५ सहस्राधिकाः जनाः मृताः तथा बहवः जनाः अद्यापि लुप्ताः सन्ति। अयं भूकम्पः जापानदेशस्य इतिहासे अद्यावधि सर्वाधिक–शक्तिशाली भूकम्पः इति मन्यते। एषा घटना “२०११ तोहोकु–भूकम्पः सुनामी च” इति नाम्ना प्रसिद्धा अस्ति।
अस्य दिनाङ्कस्य अन्याः ऐतिहासिकाः घटनाः अपि सन्ति। १८८१ तमे वर्षे कोलकातानगरे टाउन–हॉल–भवने रामनाथ–टैगोरस्य प्रतिमाया: अनावरणं कृतम्। सार्वजनिकस्थले कस्यचित् भारतीयस्य प्रतिमाया: स्थापनाया: एषः प्रथमः अवसरः आसीत्।
तथैव १९४८ तमे वर्षे अस्मिन्नेव दिने भारतस्य प्रथमस्य आधुनिक–पोतस्य “जल–ऊषा” इत्यस्य विशाखापत्तनम–पत्तने जलावतरणं कृतम्।एवं ११ मार्चमास: प्राकृतिक–आपदाभिः, ऐतिहासिक–उपलब्धिभिः तथा विविधाभिः महत्त्वपूर्णाभिः घटनाभिः इतिहास–पृष्ठेषु विशेषं स्थानं धारयति।
महत्वपूर्णाः घटनाः
१६६९ — इटली–देशे एटना–ज्वालामुखिः विस्फोटितः, यस्मिन् प्रायः १५,००० जनाः मृताः।१७०२ — इङ्ग्लैण्डदेशे प्रथमः दैनिक–समाचारपत्रः “डेली करंट” प्रकाशितः।१८८१ — कोलकातानगरे टाउन–हॉल–भवने रामनाथ–टैगोरस्य प्रतिमा स्थापिताऽभूत्।१९४८ — भारतस्य प्रथमस्य आधुनिक–पोतस्य “जल–ऊषा” इत्यस्य विशाखापत्तनमे जलावतरणं कृतम्।१९५१ — नवदिल्ली–नगरे प्रथमेषु एशियाई–क्रीडासु आयोजनस्य आरम्भः अभवत्।१९८५ — कोंस्तान्तिन–चेरेन्को–मरणानन्तरं मिखाइल–गोर्बाचेवः सोवियत–संघस्य सर्वोच्च–नेता निर्वाचितः।१९९० — लिथुआनिया–देशः सोवियत–संघात् स्वातन्त्र्यं घोषितवान्।१९९६ — लेखकः सलमान–रुश्दी विरुद्धं प्रदत्तम् आदेशं ईरान–देशेन प्रत्याहृतम्।१९९९ — इन्फोसिस–निर्माणी नैशडैक–अन्ताराष्ट्रिय–वित्त–विनिमय–सूच्यां प्रविष्टा प्रथमाऽभूत् भारतीय–निर्माणी।२००४ — स्पेन–देशे रेलस्थानकेषु बम–विस्फोटेषु १९० जनाः मृताः, १२०० अधिकाः आहताः।२०१० — विश्व–प्लम्बिङ्ग–परिषदा अस्य दिनस्य विश्व–प्लम्बिङ्ग–दिवसः इति घोषणा कृता।२०११ — जापानदेशे ९.० तीव्रतायुक्तः भूकम्पः, तदनन्तरं सुनामी च; फुकुशिमा–परमाणु–केन्द्रे महती दुर्घटना अभवत्।२०२० — विश्व–स्वास्थ्य–संगठनेन कोविड–१९ रोगः वैश्विक–महामारी इति घोषितः।
जन्म
१९१५ — विजय–हजारे — भारतस्य प्रख्यातः क्रिकेट–क्रीडकः।१९२५ — मदनसिंह–मतवाले — हैदराबाद–संघर्षस्य प्रमुखः व्यक्तिः।१९२७ — वी. शान्ता — रेमन–मैग्सेसे–पुरस्कार–विजेता भारतीय–चिकित्सिका।१९३९ — सुदर्शन–साहू — प्रसिद्धः भारतीय–मूर्तिकारः।१९४२ — अमरिन्दर–सिंह: — पंजाब–राज्यस्य भूतपूर्वः मुख्यमंत्री।१९५१ — डॉ. अशोक–बंसल — प्रसिद्धः भारतीय–पत्रकारः लेखकश्च।१९५४ — विनोद–दुआ — प्रख्यातः भारतीय–समाचार–वाचकः दूरदर्शन–पत्रकारश्च।१९६१ — मोहम्मद–बिन–जायद–अल–नहयान — अबुधाबी–राजकुमारः।
निधनम्
१६८९ — शम्भाजी — छत्रपति–शिवाजी–महाराजस्य ज्येष्ठः पुत्रः उत्तराधिकारी च।१९८० — चन्द्रभानु–गुप्त: — स्वतन्त्रता–सेनानी तथा उत्तरप्रदेशस्य भूतपूर्वः मुख्यमंत्री।
महत्वपूर्णाः अवसराः
अण्डमान–निकोबार–दिवसःविश्व–प्लम्बिङ्ग–दिवसः
हिन्दुस्थान समाचार / अंशु गुप्ता