Enter your Email Address to subscribe to our newsletters

दरभंगानगरम्, १० मार्चमासः (हि.स.) — जनपदाधिकारिण: कौशल–कुमारस्य आध्यक्ष्ये तस्य कार्यालये केंद्रीय–विद्यालय–क्रमांक–२ दरभंगाप्रबंधन–समितेः सभा आयोजिता। अस्यां सभायां विद्यालयस्य प्रशासनिक तथा शैक्षणिकविषयेषु विस्तारपूर्णा: समीक्षा: कृताः। स्थायी–भूमि विद्यालयाय उपलब्धं कारयितुं इत्यस्मै विषयाय अपि चर्चा कृता।प्रबंधन–समितेः सदस्याः जनपदाधिकारी तथा प्रशासनं प्रति आभारं व्यक्तवन्तः, यत् स्थायी–भूमेः उपलब्धिः विद्यालयस्य समुचित–विकासाय, आधारभूत–संरचनायाः सुदृढीकरणाय च विद्यार्थिभ्यः उत्कृष्टं शैक्षणिक–पर्यावरणं प्रदातुम् साहाय्यं करिष्यति।
विद्यालय–प्रधानाचार्येण पठन–पाठनं, शैक्षणिक–गतिविधयः, विद्यार्थिनां उपलब्धयः च विद्यालयस्य समग्र–सञ्चालनं विषये जनपदाधिकारिणे सूचितम्। विद्यालये गुणवत्तायुक्ता: शिक्षा: सुनिश्चेतुं नियमितं शैक्षणिक–गतिविधयः सञ्चाल्यन्ते, तथा विद्यार्थिनां सर्वाङ्गीण–विकासे विशेष–सावधानता प्रदत्ता।
जनपदाधिकारीप्रबंधनं निर्देशितवन्तः यत् — शैक्षणिक–गुणवत्तां वर्द्धयितुं, विद्यार्थिनां सर्वाङ्गीण–विकासे ध्यानं दातुम्, आवश्यक–आधारभूत–सौविध्यानां विकासाय समन्वयेन कार्यं कर्तव्यम्। सहैव केंद्रीय–विद्यालय–क्रमांक–१ भवनस्य पृष्ठभूमेः सौंदर्यीकरणाय अपि निर्देशः।
जनपदाधिकारी अवदत् — शिक्षा–क्षेत्रे गुणवत्तायुक्तं पर्यावरणं निर्मातुं प्रशासनस्य प्राथमिकतायां सम्मिलितम् अस्ति, तथा जनपद–प्रशासनम् अस्मिन् मार्गे सम्पूर्णं सहयोगं दास्यति। सभायां केंद्रीय–विद्यालय–प्रबंधन–समितेः सदस्याः, विद्यालय–प्रधानाचार्यः तथा अन्य सम्बद्धाः अधिकारिण: उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता