सर्वे गुणवत्तायुक्तां चिकित्सां प्राप्नुयु: इति अस्माकं प्राथमिकता अस्ति — ब्रजेश–पाठक:
लखनऊनगरम्, १० मार्चमासः (हि.स.) — उपमुख्यमन्त्रिण: ब्रजेश–पाठकस्य उपस्थितौ प्रयागराज–नगरे द्वयोः चिकित्सालययोः छावनी–चिकित्सालयस्य मध्ये एमओयू (Memorandum of Understanding) हस्ताक्षरितम्। एतै: माध्यमेन जनाः उच्च–स्तरीय-स्वास्थ्य–सेवाः प्राप्स्यन्ति
उप मुख्यमंत्री ब्रजेश पाठक के साथ अस्पतालों के प्रतिनिधि


लखनऊनगरम्, १० मार्चमासः (हि.स.) — उपमुख्यमन्त्रिण: ब्रजेश–पाठकस्य उपस्थितौ प्रयागराज–नगरे द्वयोः चिकित्सालययोः छावनी–चिकित्सालयस्य मध्ये एमओयू (Memorandum of Understanding) हस्ताक्षरितम्। एतै: माध्यमेन जनाः उच्च–स्तरीय-स्वास्थ्य–सेवाः प्राप्स्यन्ति।

एमओयू–अनुसारं आर्टिफिशियल–इंटेलिजेन्स–आधारिता: सुपर–स्पेशलिटी–इंटेन्सिव–केयर–यूनिट्स् तेजबहादुर–सप्रू-चिकित्सालये तथा मोतीलाल–नेहरू-मण्डलीय-चिकित्सालये स्थाप्यन्ते। एषु क्रिटिकल–केयर, कार्डियोलॉजी, न्यूरोलॉजी, न्यूरोसर्जरी, नेफ्रोलॉजी, गैस्ट्रोएंट्रोलॉजी च सुविधाः उपलब्धाः भविष्यन्ति।

प्रत्येकं चिकित्सा–विभागं प्रति सप्ताहे विशेषज्ञ–ओपीडी सत्रं, आईसीयू–मॉनीटरिंग, स्टाफ–नर्स तथा पैरामेडिकल–सहायता उपलब्धा भविष्यति। अत्याधुनिकानि उपकरणानि तथा मानव–संसाधनानि द्विवर्षपर्यन्तं निःशुल्कं प्रदत्तानि भविष्यन्ति, सहैव चिकित्साकर्मिणां प्रशिक्षणं अपि निरंतरं क्रियते।

मुख्यातिथि: ब्रजेश–पाठक: अवदत् — प्रदेशस्य प्रत्येकं जनस्य कृते गुणवत्तायुक्ताया: चिकित्सायाः प्रापणं प्रमुख–प्राथमिकता अस्ति।

अस्मिन् अवसरे अपर–मुख्य–सचिवः, चिकित्सा–स्वास्थ्यम् — अमित–घोषः, महानिदेशकः, चिकित्सा–स्वास्थ्य–सेवाः — डॉ.पवन–कुमार–अरुणः, विशेष–सचिवः, चिकित्सा–स्वास्थ्य–परिवार–कल्याणम्— धीरेन्द्र–सिंह–सचानः, नोडल–अधिकारी — डॉ.विकासेंदु–अग्रवालः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता