भारतं मोजाम्बिके जलप्रलयपीड़ितेभ्यः प्रेषितवान् सामग्रीम्
नव दिल्ली, 10 मार्चमासः (हि.स.)। पूर्वी-अफ्रीका-स्थिते मोजाम्बिक-देशस्य मध्य-दक्षिण-प्रान्तेषु आगतया भीषणया बाढया जातायां विनाशस्थितौ भारतदेशेन मङ्गलवासरे व्यापकं मानवीयसहायतायाः तथा आपद्-राहत-अभियानस्य आरम्भः कृतः। विदेशमन्त्रालयस्य अनुसारं अस्
मोजाम्बिक बाढ़ पीड़ित सहायता


नव दिल्ली, 10 मार्चमासः (हि.स.)।

पूर्वी-अफ्रीका-स्थिते मोजाम्बिक-देशस्य मध्य-दक्षिण-प्रान्तेषु आगतया भीषणया बाढया जातायां विनाशस्थितौ भारतदेशेन मङ्गलवासरे व्यापकं मानवीयसहायतायाः तथा आपद्-राहत-अभियानस्य आरम्भः कृतः।

विदेशमन्त्रालयस्य अनुसारं अस्यां संकटघटिकायां भारतदेशः मोजाम्बिक-देशेन सह ऐक्यं प्रदर्श्य खाद्यसुरक्षा-चिकित्सासुविधादीनि समावेश्य बहुविधां सहाय्यं प्रदत्तवान्। अस्मिन् त्वरित-खाद्यसहायतारूपेण पञ्चशतं मीट्रिक-टन-परिमितं तण्डुलं तथा दश मीट्रिक-टन-परिमिता अन्याः राहत-सामग्री भारतीयनौसेनायाः पोतेन प्रेषिताः।

विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः उक्तवान् यत् — “भारतः हिन्द-महासागर-क्षेत्रे तथा अफ्रीका-प्रदेशे विश्वसनीयः प्राथमिक-प्रतिक्रियादाता दृढसहयोगी च इति स्वभूमिकायाः प्रति पूर्णतया प्रतिबद्धः अस्ति। मोजाम्बिक-देशस्य जनानां प्रति मानवीय-चिकित्सकीय-रसद-सम्बद्धा सर्वथा सहायता प्रदाने भारतः निरन्तरं प्रवृत्तः भविष्यति, येन तत्र शीघ्रमेव सामान्य-स्थिति पुनः स्थापितुं शक्यते।”

---------------

हिन्दुस्थान समाचार