Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः उक्तवती यत् प्रत्यक्षकराः देशस्य विकासस्य गतिं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। स्थिर-राजस्वस्रोतत्वेन एते सरकाराणां कृते अवसंरचना-शिक्षा-स्वास्थ्य-सामाजिककल्याणादिषु महत्त्वपूर्णक्षेत्रेषु निवेशं कर्तुं सामर्थ्यं प्रददति। सा अपि अवदत् यत् न्याय्या पारदर्शिनी च करप्रणाली समतां प्रोत्साहयति तथा च समावेशिनः सतत-विकासस्य दृढां आधारशिलां निर्माति।
मङ्गलवासरे राष्ट्रपतिभवने भारतीयराजस्वसेवा (आईटी) इत्यस्य उन्नवत्यधिकसप्ततितमस्य (७९) बैचस्य अधिकारी-प्रशिक्षार्थिनः सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् राजस्वसेवायाः दायित्वं केवलं करसंग्रहपर्यन्तं न सीमितम्। जटिल-वित्तीय-व्यवहाराणां विश्लेषणं कर्तुं, सीमातीत-अवैध-वित्तीय-प्रवाहान् अन्वेष्टुं, तथा जटिल-कॉरपोरेट-संरचनाः अवगन्तुं च या क्षमता अस्ति, सा आईआरएस-अधिकारिणः विकसितभारत-लक्ष्यस्य दिशि राष्ट्रस्य महत्त्वपूर्णं सहयोगिनं करोति।
सा अवदत् यत् युव-अधिकारिभ्यः अपेक्षा अस्ति यत् ते स्वाचारणेषु निर्णयेषु च विवेकं प्रदर्शयेयुः। विवेकी अधिकारी प्रवर्तन-सुविधयोः, अधिकार-विनययोः, तकनीकी-क्षमता-मानवीय-संवेदनशीलतयोः च मध्ये सम्यक् संतुलनं स्थापयति।
राष्ट्रपतिः अधिकारिणः उपदिष्टवती यत् ते स्वाधिकारस्य प्रयोगं विनयेन, संयमेन तथा संवैधानिक-मूल्येषु अटूट-प्रतिबद्धतया सह कुर्वन्तु।
भारतीयराजस्वसेवा (आईटी) इत्यस्य अधिकारी-प्रशिक्षार्थिनः वर्तमानकाले नागपुर-स्थिते राष्ट्रीय-प्रत्यक्षकर-अकादम्यां प्रारम्भिक-प्रशिक्षणं प्राप्नुवन्ति। अस्मिन् गणे भूटान-देशस्य रॉयल-भूटान-सेवायाः द्वौ अधिकारी-प्रशिक्षार्थिनौ अपि सम्मिलितौ स्तः।
---------------
हिन्दुस्थान समाचार