Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमः, 10 मार्चमासः (हि.स.)।पश्चिमीसिंहभूमजनपदस्य गुवा नगरे मङ्गलवासरे केन्द्रीयऔद्योगिकसुरक्षाबलस्य (सीआईएसएफ) गुवा तथा मेघाहातुबुरु एककयोः सप्तपञ्चाशत्तमः स्थापना-दिवसः महता उत्साहेन गौरवेण गरिमया च आचरितः।
अस्मिन् अवसरे एककपरिसरे विशेषकार्यक्रमः आयोजितः, यस्मिन् बलस्य अधिकारीणः, अधीनस्थाधिकारीणः तथा बहुसंख्यकाःसैनिकाः उपस्थिताः आसन्।
कार्यक्रमे सीआईएसएफ बलस्य गौरवशालिनः इतिहासस्य, अनुशासनस्य तथा कर्तव्यनिष्ठायाः विषये विस्तारतः प्रकाशः स्थापितः। अधिकारीणः जवानान् स्वकर्तव्यानि ईमानदारीनिष्ठया समर्पणेन च निर्वहन्तु इति प्रेरणां दत्तवन्तः। ते अवदन् यत् सीआईएसएफ बलस्य मुख्यः उद्देश्यः देशस्य औद्योगिकानां रणनीतिकपरिसम्पत्तीनां च सुरक्षां सुदृढां कर्तुम् अस्ति, यत् बलस्य जवानाः पूर्णप्रतिबद्धतया निर्वहन्ति।
कार्यक्रमे तेषां अधिकारिणां जवानानां च विशेषतः सम्माननं कृतम्, ये स्वकर्तव्यपालनकाले उत्कृष्टकार्यं प्रशंसनीयसेवा च प्रदर्शितवन्तः। तेषां योगदानस्य प्रशंसार्थं तेषभ्यः प्रशंसापत्राणि स्मृतिचिह्नानि च प्रदत्तानि।
अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितः मुख्यमहाप्रबन्धकः चन्द्रभूषणकुमारः बलस्य कार्याणां प्रशंसां कृत्वा उक्तवान् यत् औद्योगिकसुरक्षाक्षेत्रे सीआईएसएफ बलं देशस्य एकं सुदृढं सुरक्षाकवचं इव कार्यं करोति। स सर्वान् कार्मिकान् भविष्येऽपि अनुशासनसमर्पणकर्तव्यनिष्ठाभिः सह कार्यं निरन्तरं कुर्वन्तु इति प्रेरितवान्।
कार्यक्रमस्य अन्ते राष्ट्रस्य सुरक्षा-सेवा-समर्पणस्य संकल्पेन सह समारोहस्य समापनं कृतम्। अस्मिन् अवसरे उपस्थिताः अधिकारिणः जवानाः च देशस्य सुरक्षायै तथा औद्योगिकप्रतिष्ठानानां रक्षणाय पूर्णनिष्ठया कार्यं निरन्तरं करिष्यामः इति संकल्पं पुनरुच्चारितवन्तः।
---------------
हिन्दुस्थान समाचार