Enter your Email Address to subscribe to our newsletters


खूंटी, 10 मार्चमासः (हि.स.)।
ओडिशाराज्यस्य भुवनेश्वरनगरे मार्चमासस्य १५ तः २० दिनपर्यन्तं आयोजितायां यूथ नेशनल वालीबॉल चैंपियनशिप स्पर्धायां बालकवर्गे तथा बालिकावर्गे खूंटी जिलात् द्वयोः क्रीडकोः चयनम् अभवत्।
बालकवर्गे गौतम रामस्य क्रीडकस्य तथा बालिकावर्गे एनिमा भुइयां नामकायाः क्रीडकायाः चयनम् अभवत्।
एतां जानकारीं दत्वा खूंटी जिला वालीबॉल संघस्य जिलाध्यक्षः दिलीप मिश्रा अवदत् यत् द्वयोः क्रीडकोः चयनात् खूंटी जिलावासिनः गौरवान्विताः सन्ति।
दिलीप मिश्रा सह खूंटी जिला वालीबॉल संघस्य महासचिवः पीटर मुंडू, राजकुमार गुप्ता, विक्की गुप्ता, मनोज राय, विकास मिश्रा, अमित राम इत्यादयः अपि उभयोः क्रीडकयोः अभिनन्दनं कृत्वा तयोः उज्ज्वल भविष्यस्य कामनाम् अकुर्वन्।
---------------
हिन्दुस्थान समाचार