Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 मार्चमासः (हि.स.)।
केन्द्रीयसर्वकारेण कोलकातापत्तनस्थितस्य ऐतिहासिकबासक्यूलपुलस्य नवीनीकरणाय अनुमतिः प्रदत्ता। अस्य परियोजनायाः कृते ११७.५४ कोटिरूप्यकाणां व्ययः भविष्यति, येन श्यामा प्रसाद मुखर्जी पत्तनस्य कोलकाता इत्यस्य डॉकप्रणाल्याः सुरक्षा तथा परिचालनक्षमता वर्धिता भविष्यति।
केन्द्रीयपोतनौवहनजलमार्गमन्त्री सर्बानन्द सोनोवाल उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदीस्य नेतृत्वे सरकारः “विरासतभी विकासभी” इति दृष्ट्या अग्रे गच्छति। एषा परियोजना महत्त्वपूर्णां विरासत्संपत्तिं संरक्ष्य आधुनिकतन्त्रज्ञानस्य साहाय्येन तां अधिकसुरक्षितां, शीघ्रतरां तथा अधिककुशलं पत्तनपरिचालनं कर्तुं सक्षमां करिष्यति।
मन्त्रालयेन उक्तं यत् षट्दशकपूर्वनिर्मितः अयं द्विपथबासक्यूलपुलः मूलतः वाग्नरबिरो ब्रिज सिस्टम्स एजी इत्यनेन निर्मितः आसीत्। अधुना अस्मिन् व्यापकसंरचनामजबूतीकरणं तथा विद्युत्-यान्त्रिकउन्नयनं क्रियिष्यते। अस्य प्रस्तावस्य मूल्याङ्कनं १६ फरवरी २०२६ तिथौ मन्त्रालयस्य डेलीगेटेड इन्वेस्टमेंटपरिषदः सभायां कृतम्।
११७.५४ कोटिरूप्यकपरिमितायाः अस्य परियोजनायाः कृते प्रायः ४१ कोटिरूप्यकाणि सागरमाला कार्यक्रमस्य अन्तर्गतं वित्तीयसहाय्यरूपेण प्रदास्यन्ते। परियोजनायाः कार्यान्वयनं रेल विकास निगम लिमिटेड द्वारा भविष्यति, तथा कार्यं मुम्बईस्थिताय निजसंस्थायै प्रदत्तम्।
---------------
हिन्दुस्थान समाचार