विकसित–दिल्ली–निर्माणाय सर्वकारस्य उद्योगस्य च मध्ये सुदृढ–सहयोगः आवश्यकः — सूदः
नवदिल्ली, १० मार्चमासः (हि.स.)। दिल्ली–राज्यस्य शिक्षामन्त्री आशीष–सूदः अवदत् यत् विकसित–दिल्ली–निर्माणाय सर्वकारस्य उद्योग–क्षेत्रस्य च मध्ये सुदृढ–सहयोगस्य आवश्यकता अस्ति। सः मङ्गलवासरे नव–दिल्ली–नगरे आयोजिते सीआईआई–दिल्ली–स्टेट–वार्षिक–अधिवेशन–
नई दिल्ली में कॉन्फेडरेशन ऑफ इंडियन इंडस्ट्री के जरिए ‘दिल्ली 2047: कैपिटल ऑफ ग्रोथ, इनोवेशन एंड ग्लोबल पार्टनरशिप्स’ विषय पर आयोजित सत्र को संबोधित करते  दिल्ली के शिक्षा मंत्री आशीष सूद


नई दिल्ली में कॉन्फेडरेशन ऑफ इंडियन इंडस्ट्री के जरिए आयोजित सीआईआई दिल्ली स्टेट एनुअल सेशन 2025–26 एवं बिजनेस कॉन्फ्रेंस में भाग लेते  मंत्री आशीष सूद


नवदिल्ली, १० मार्चमासः (हि.स.)। दिल्ली–राज्यस्य शिक्षामन्त्री आशीष–सूदः अवदत् यत् विकसित–दिल्ली–निर्माणाय सर्वकारस्य उद्योग–क्षेत्रस्य च मध्ये सुदृढ–सहयोगस्य आवश्यकता अस्ति।

सः मङ्गलवासरे नव–दिल्ली–नगरे आयोजिते सीआईआई–दिल्ली–स्टेट–वार्षिक–अधिवेशन–२०२५–२६ तथा व्यवसाय–सम्मेलने भागं गृह्णन् एतत् उक्तवान्। अस्य सम्मेलनस्य आयोजनं कॉन्फेडरेशन–ऑफ–इण्डियन–इण्डस्ट्री (सीआईआई) इत्यनेन कृतम्। अस्मिन् विभिन्न–क्षेत्रेभ्यः उद्योग–प्रतिनिधयः, नीतिनिर्मातारः विशेषज्ञाः सहभागिन: च अभवन्।

सः “दिल्ली २०४७ : विकास–नवाचार–वैश्विक–सहभागितानां राजधानी” इति विषये आयोजितं सत्रं सम्बोधयन् अवदत् यत् गत–केषुचित् वर्षेषु दिल्ली–व्यापार–जगतः व्यापार–वृद्धेः, रोजगार–सृजनस्य नगरस्य अर्थव्यवस्थायां उद्योगानां योगदानस्य च सम्बन्धितान् अनेकान् विषयान् उत्थापितवान्। एतेषु आधारभूत–संरचना, नीतिगत–व्यवस्था तथा भूमेः उपलब्धता इत्यादयः विषयाः अपि अन्तर्भवन्ति।

सः अवदत् यत् दिल्ली–सर्वकार: उद्योग–जगता सह निरन्तर–संवादेन भविष्याय नीतिनिर्माणं कर्तुं तथा उत्तमं व्यावसायिक–परिवेशं निर्मातुं प्रतिबद्ध: अस्ति। डीरिगुलेशन–प्रक्रियया तथा नीतिगत–संशोधनै: दिल्ली–नगरे व्यापार–उद्योगयोः अनुकूलः परिवेशः निर्मीयते। व्यापारिणां, उद्यमिनां उद्योगानां च सहभागितां वर्धयितुं सर्वकार: उद्योग–सङ्घटनैः हितधारकैः च सह निरन्तरं संवादं कुर्वन् अस्ति, यस्य सकारात्मक–परिणामाः अपि दृश्यन्ते।

सूदः अवदत् यत् सर्वकार: शिक्षा–व्यवस्थां उद्योग–आवश्यकतानुसारं कर्तुं प्रयतते। अस्यान्तर्गतं औद्योगिक–प्रशिक्षण–संस्थानानां (आईटीआई) पाठ्यक्रमः आधुनिक–तन्त्रज्ञान–युक्तः क्रियते, येन छात्राः उद्योगानां परिवर्तमाना-आवश्यकतानुसारं कौशल–प्रशिक्षणं प्राप्नुयुः। तेन दिल्ली–यूनां मध्ये उद्यमिता–प्रोत्साहनाय कृतानां प्रयासानां अपि उल्लेखः कृतः।

दिल्ली–सर्वकारेण सम्प्रतिकाले आयोजितेन “स्टार्टअप–युवा–फेस्टिवल” कार्यक्रमेण अनेकानां नवोन्मेष–प्रधानानां स्टार्टअप–विचाराणां आर्थिक–सहायता प्रदत्ता। तथा च सर्वकार: नूतनां इन्क्यूबेशन–नीतिं निर्मातुं कार्यं करोति, यस्याः अन्तर्गतं अग्रिम–पञ्चवर्षेषु प्रायः ३२५ कोटि–रूप्यकाणां निवेशेन २०३५ पर्यन्तं प्रायः ५००० स्टार्टअप–संस्थाः समर्थयितुं योजना अस्ति।

सूदः अवदत् यत् असङ्गठित–सेवा–क्षेत्रे कार्यरत–श्रमिकेभ्यः सामाजिक–सुरक्षां प्रदातुं सर्वकार: विभिन्न–स्तरेषु विचारं करोति, यत् अग्रिम–नीतिगत–उपक्रमेषु अन्तर्भवितुं शक्नोति। सः अवदत् यत् दिल्लीनगरे “ईज़–ऑफ–डूइङ्ग–बिजनेस” सुदृढीकरणाय अनेकानि संशोधनानि क्रियन्ते। तेषु अग्नि–एनओसी–प्रक्रियायाः सरलीकरणम्, श्रम–नियमेषु आतिथ्य–क्षेत्रस्य कतिपय–अनुज्ञा–प्रावधानानां जनहितकारी–परिवर्तनानि च अन्तर्भवन्ति।

अन्ते सः अवदत् यत् सर्वकारस्य, उद्योग–जगतः समाजस्य च मध्ये सुदृढः सहयोगः एव दिल्ली–नगरं विकास–नवाचार–अवसराणां वैश्विक–केन्द्रं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

हिन्दुस्थान–समाचारः।

हिन्दुस्थान समाचार / अंशु गुप्ता