Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, १० मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहन–यादवः अद्य मङ्गलवासरे ओंकारेश्वर–इन्दौरयोः प्रवासे भविष्यति। सः अत्र आयोजितेषु स्थानीय–कार्यक्रमेषु सहभागं करिष्यति।
निर्धारित–कार्यक्रमानुसारं मुख्यमंत्री डॉ.यादवः १० मार्चमासे भोपालनगरात् हेलिकॉप्टर–यानेन मध्याह्ने १२:३५ वादने प्रस्थानं कृत्वा १:२५ वादने ओंकारेश्वरं प्राप्स्यति। ओंकारेश्वरे स्थानीय–कार्यक्रमेषु सहभागं कृत्वा सः पुनः १:५५ वादने हेलिकॉप्टर–यानेन इन्दौरनगराय प्रस्थानं करिष्यति।
मुख्यमंत्री डॉ.यादवः इन्दौर–विमानतलात् प्रत्यक्षतया स्कीम–संख्या–५४ विजय–नगर–स्थितं गुजराती–इनोवेटिव–महाविद्यालयं गमिष्यति। तत्र आयोजिते स्थानीय–कार्यक्रमे सहभागं कृत्वा सः पुनः भोपालनगराय प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता