Enter your Email Address to subscribe to our newsletters

खण्डवानगरम्, १० मार्चमासः (हि.स.)। मध्यप्रदेश–सर्वकारस्य “मुख्यमंत्री–तीर्थदर्शन–योजना” अन्तर्गतं खण्डवा–जनपदस्य वरिष्ठ–नागरिकाः “रामेश्वरम्–मदुराई” इत्येतयोः तीर्थस्थानयोः तीर्थयात्रां करिष्यन्ति।
खण्डवा–जनपदस्य उपायुक्त: ऋषव–गुप्तः उक्तवान् यत् “रामेश्वरम्–मदुराई” तीर्थस्थानयोः कृते अद्य मङ्गलवासरे विशेष–रेलयानं प्रस्थास्यति तथा १६ मार्चमासे पुनः प्रत्यागमिष्यति। अस्याः तीर्थयात्रायाः कृते चयनितेभ्यः यात्रिभ्यः रेल्वे–स्थानकस्य पुरतः स्थितायां पार्वतीबाई–धर्मशालायाम् चिटिका–वितरणं क्रियते।
सर्वेभ्यः चयनितेभ्यः यात्रिभ्यः तथा प्रतीक्षा–सूच्यां समाविष्टेभ्यः वृद्धजनेभ्यः अपि अनुरोधः कृतः यत् ते स्वस्य आधार–पत्रकेण तथा मतदाता–परिचय–पत्रस्य मूल–प्रतिना सह धर्मशालायां निर्दिष्ट–समये उपस्थिताः भवन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता