उज्जयिनी — विक्रम–उत्सवः २०२६ अन्तर्गतं ‘अनहद’ वैचारिक–समागमः अद्य आरभ्यते
उज्जयिनीनगरम्, १० मार्चमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे विक्रम–उत्सवः २०२६ अन्तर्गतं महाराज–विक्रमादित्य–शोध–पीठस्य संस्कृतिविभागस्य च संयुक्त–तत्त्वावधानेन “अनहद – सङ्गीतस्य उद्भवः विकासश्च” इति विषये त्रिदिवसीयः वैचारिक–समागमः आयोज्यते। अ
विक्रमोत्सव 2026


उज्जयिनीनगरम्, १० मार्चमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे विक्रम–उत्सवः २०२६ अन्तर्गतं महाराज–विक्रमादित्य–शोध–पीठस्य संस्कृतिविभागस्य च संयुक्त–तत्त्वावधानेन “अनहद – सङ्गीतस्य उद्भवः विकासश्च” इति विषये त्रिदिवसीयः वैचारिक–समागमः आयोज्यते। अयं कार्यक्रमः अद्य मङ्गलवासरात् आरभ्य प्रतिदिनं प्रातः ११ वादने कालिदास–अकादम्याः अभिरङ्ग–सभागारे आयोजितः भविष्यति।

महाराज–विक्रमादित्य–शोध–पीठस्य निदेशकः श्रीराम–तिवारी अवदत् यत् अस्मिन् समागमे देशस्य प्रख्याताः विद्वांसः सङ्गीतज्ञाश्च सङ्गीतस्य उद्भवः, विकासः तथा भारतीय–परम्परायां तस्य महत्त्वम् इति विषयेषु स्वविचारान् व्यक्तं करिष्यन्ति। कार्यक्रमे पद्मश्री डॉ.भगवतीलाल–राजपुरोहित:, पं.अर्जुन–भारद्वाज:, शतावधानी आर.गणेश:, डॉ.पुरुदधीच:, डॉ.श्रीनिवास–वरखेड़ी, पं. बालकृष्ण–शर्मा, पं. श्रीहरि–गोकर, पं. गोस्वामी–रणछोड़दास:, रुद्रवीणा–विदुषी ज्योति–हेगड़े, डॉ. पंकज–माला–शर्मा तथा डॉ. इन्द्राणी–चक्रवर्ती वक्तृरूपेण स्वविचारान् प्रस्तोष्यन्ति।

कार्यक्रमस्य शुभारम्भः मङ्गलाचरणेन भविष्यति। अस्मिन् ध्रुपद–संस्थान–भोपाल, सप्तक–स्कूल–ऑफ–म्यूजिक अहमदाबाद, मेहर–बैण्ड, सुश्री सूर्य–गायत्री, रुद्रवीणा–विदुषी ज्योति–हेगड़े तथा मृणालिनी–देसाई इत्येतासां प्रस्तुतय: भविष्यन्ति।

समागमस्य अन्तर्गतं सङ्गीत–कार्यक्रमाः अपि आयोज्यन्ते, येषु विदुषी देवकी–पण्डित, पं. रूपक–कुलकर्णी (वंशी), पं. मैसूर–मञ्जुनाथ (वायलिन) तथा पं. साजन–मिश्र स्वीयाः सङ्गीत–प्रस्तुतयः दास्यन्ति। आयोजकैः सङ्गीत–प्रेमिभ्यः, शोधार्थिभ्यः तथा नागरिकेभ्यः अस्मिन् त्रिदिवसीये आयोजने सहभागितायै आग्रहः कृतः।

हिन्दुस्थान समाचार / अंशु गुप्ता