प्रधानमंत्री मंत्रिमंडलस्य निर्णयो बोधितो विकासस्य नूतनदिङ्
नव दिल्ली, 10 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे मन्त्रिपरिषदः निर्णयान् देशस्य विकासाय अत्यन्तमहत्त्वपूर्णान् इति अवदत्। सः उक्तवान् यत् जलजीवनमिशनसम्बद्धः मन्त्रिपरिषदः निर्णयः ग्रामीणभारते सततविश्वसनीयनलजलपूर्तेः सुनिश्चि
भारतीय प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 10 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे मन्त्रिपरिषदः निर्णयान् देशस्य विकासाय अत्यन्तमहत्त्वपूर्णान् इति अवदत्। सः उक्तवान् यत् जलजीवनमिशनसम्बद्धः मन्त्रिपरिषदः निर्णयः ग्रामीणभारते सततविश्वसनीयनलजलपूर्तेः सुनिश्चिततायाः दिशि महत्पदम् अस्ति।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे पृथक्पृथक् लेखेषु अवदत् यत् जलजीवनमिशनसम्बद्धः मन्त्रिपरिषदः निर्णयः केवलं आधारभूतसंरचनानिर्माणात् अग्रे गत्वा नागरिककेन्द्रितसेवाप्रदानव्यवस्थायाः उपरि ध्यानं केन्द्रयिष्यति। अनेन जलसुरक्षा सुदृढा भविष्यति, स्वास्थ्यपरिणामाः उत्तमाः भविष्यन्ति तथा ग्रामीणसमुदायाः विशेषतः नारीशक्तिः सशक्तीकृता भविष्यति।

अन्यस्मिन् लेखे प्रधानमन्त्री उक्तवान् यत् तमिलनाडुराज्यस्य विकासाय तथा संयोजनसुविधावृद्धये महत्त्वपूर्णः निर्णयः कृतः। मन्त्रिपरिषद् मदुरैविमानतलम् अन्तरराष्ट्रीयविमानतलरूपेण घोषितुं अनुमतिं दत्तवती। अनेन दक्षिणतमिलनाडुक्षेत्रे पर्यटनव्यापारआर्थिकावसराणां वृद्धिः भविष्यति।

प्रधानमन्त्री उक्तवान् यत् मन्त्रिपरिषद् राष्ट्रीयराजमार्गसंख्या७५२डी अन्तर्गतस्य बदनावरपेटलावदथांदलतिमरवानीखण्डे चतुर्पथमार्गपरियोजनायाः विकासाय अनुमतिं दत्तवती। एषा परियोजना यात्राकालं न्यूनं करिष्यति, वहनव्यवस्थां सुधारयिष्यति तथा विशेषतः आदिवासीक्षेत्रेषु आर्थिकविकासं प्रोत्साहयिष्यति।

अन्यस्मिन् लेखे प्रधानमन्त्री पूर्वभारतक्षेत्रे रेलसंयोजनक्षमता वर्धनसम्बद्धं मन्त्रिपरिषदः निर्णयम् उल्लेखितवान्। सः उक्तवान् यत् मन्त्रिपरिषद् पश्चिमबङ्गालझारखण्डराज्ययोः पञ्चजिलेषु बहुमार्गरेलपरियोजनानां अनुमोदनं कृतवती। अनेन कार्यदक्षता वर्धिष्यते, भीडाभारः न्यूनः भविष्यति, मालपरिवहनं सुदृढं भविष्यति तथा सततअल्पकार्बनपरिवहनव्यवस्था प्रोत्साहिता भविष्यति।

---------------

हिन्दुस्थान समाचार