Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी पवित्रां पृथिवीं राष्ट्रस्य शक्तेः स्रोतः इति निर्दिशन् संस्कृत–सुभाषितम् एकं लिखित्वा पृथिव्याः महिमानं वर्णयन् राष्ट्राय ऊर्जा–बलयोः कामनाम् अकरोत्।प्रधानमन्त्रिणा ‘एक्स’ इत्यत्र संस्कृत–सुभाषितं लिखितवान्—
“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् पृथिवी—यस्याः अन्तः समुद्राणां जलं विद्यमानम् अस्ति, या च सर्वतः जलेन परिवेष्टिता अस्ति, यां च विद्वांसः स्वज्ञानबलात् अवगच्छन्ति, तथा यस्याः हृदयं व्यापकस्य आकाशस्य मध्ये शाश्वत–सत्येन आच्छादितम् अस्ति—सा एव पवित्रा पृथिवी अस्माकं श्रेष्ठे राष्ट्रे ऊर्जा–बलयोः प्रदानं कुर्यात्।
हिन्दुस्थान समाचार / अंशु गुप्ता