Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० मार्चमासः (हि.स.)।मंगलवासरे राज्यसभायां मतदाता–सूच्याः विशेष–गहन–पुनरीक्षणस्य (एसआईआर) विषये विपक्षेन कोलाहलः कृतः। अस्मिन् समये विपक्षस्य सत्तापक्षस्य च मध्ये तीव्रा वाद–विवादः अभवत्, अनन्तरं विपक्षीयाः सदस्याः सदनात् बहिर्गमनम् अकुर्वन्।
राज्यसभायाः कार्यवाही पूर्वाह्णे ११ वादने आरब्धा। आरम्भे आवश्यक–कर्गदानि प्रतिवेदनानि च सदनस्य पटलोपरि स्थापितानि। शून्यकाले कार्यवाही आरभ्यमाणायां विपक्षेन एसआईआर–विषये चर्चायाः आयोजनस्य आग्रहः कृतः। राज्यसभायां विपक्षस्य नेता मल्लिकार्जुनखरगे अपि अनेकेषु राज्येषु प्रचलितं एसआईआर–कार्यक्रमं प्रति प्रश्नान् उपस्थितवान्। खरगेन एषा प्रक्रिया “फ्रॉड” इति निर्दिश्य उक्तं यत् अस्य कारणात् मतदाता–सूच्याः विश्वसनीयतायां प्रश्नाः उत्पद्यन्ते तथा च अनेकेषां वैध–मतदातॄणां नामानि अपसार्यन्ते। तेन सरकारात् अस्य विषये स्पष्टीकरणं विस्तृत–चर्चां च कर्तुम् आग्रहः कृतः।
एतस्मिन् विषये सदनस्य नेता जे.पी.नड्डा विपक्षस्य आरोपान् निराकृत्य अवदत् यत् निर्वाचन–सुधार–विषये गतसत्रे एव विस्तृता चर्चा जाता आसीत्। तेन विपक्षं संसदः कार्यवाहीं बाधितुं प्रयतमानम् इति आरोपः कृतः तथा च उक्तं यत् एतानि विषयाणि पुनःपुनः उत्थापयितुं न उचितम्। तस्य मतम् आसीत् यत् विपक्षः सदने वास्तविकां चर्चां न इच्छति, अपितु कोलाहलं कृत्वा कार्यवाहीं बाधयति।
नड्डा विपक्षस्य बहिर्गमनस्य अपि आलोचनां कृत्वा अवदत् यत् विपक्षः पुनः एकवारं सदनात् निर्गत्य दर्शितवान् यत् सः सार्थकां चर्चां न इच्छति। तेन विपक्षस्य आचरणं गैरजिम्मेदारी इति निर्दिष्टम्। संसदायां विषयेषु चर्चायै पर्याप्तः अवसरः दीयते, किन्तु विपक्षः चर्चां कर्तुं न इच्छन् विरोधात् बहिर्गमनस्य च मार्गं स्वीकरोति।
हिन्दुस्थान समाचार / अंशु गुप्ता