Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, १० मार्चमासः (हि.स.)।
पश्चिम–एशिया–प्रदेशे वर्तमान–चिन्ताया: कारणात् पाक–वात्या: आपूर्तिः प्रभाविताऽभवत्। अस्य परिणामस्वरूपेण समग्रे देशे गैस–अनिलकोषनां न्यूनतायाः स्थितिः उत्पन्ना अस्ति। अनेन कारणेन तमिलनाडु–राज्यस्य होटल–स्वामिनः चिन्तिताः सन्ति। तमिलनाडु–होटल–संघेन केन्द्रीय–पेट्रोलियम–मन्त्री हरदीप–सिंह–पुरी इत्यस्मै पत्रं लिखित्वा राज्ये वाणिज्यिक–गैस–अनिलकोषानां नियमित–आपूर्तिं सुनिश्चितां कर्तुं आग्रहः कृतः।
तमिलनाडु–होटल–संघेन प्रकाशिते वक्तव्ये उक्तं यत् केन्द्रीय–पेट्रोलियम–मन्त्री हरदीप–सिंह–पुरी इत्यस्मै पत्रं लिखित्वा स्वचिन्ता व्यक्ता। पत्रे संचेतना अपि दत्ता यत् यदि अनिलकोषानां आपूर्तिः आकस्मिकतया स्थगिता भवति, तर्हि होटल–भोजनालय–कैटरिंग–सेवाः अपि स्थगिताः भवितुं शक्नुवन्ति। संघेन उक्तं यत् अनेन भोजनस्य आपूर्तिः अपि प्रभाविताऽभवेत् तथा च बहूनां जनानां रोजगाराः अपि संकटे पतन्ति। होटल–संघेन आरोपः कृतः यत् वाणिज्यिक–अनिलकोषानां आपूर्तिः प्रायः पूर्णतया स्थगिता अस्ति। तेन सह उक्तं यत् सिलिण्डर–आपूर्तौ बाधया लघु–मध्यम–उद्योगानां महत् आर्थिक–हानिः भविष्यति।
संघेन अपि उक्तं यत् वाणिज्यिक–गैस–अनिलकोषानां मूल्यं अपि आकस्मिकतया वर्धितम् अस्ति तथा च तेषां आपूर्तिः अपि बाधिता अभवत्। पूर्वं होटल–स्वामिनः गैस–सिलिण्डरं आदेशं कृत्वा द्विदिनयोः अन्तरे एव वितरणं प्राप्नुवन्ति स्म, किन्तु अधुना पञ्चदश–दिनानां व्यतीतेऽपि सिलिण्डराणि न लभ्यन्ते, येन होटल–स्वामिनां मध्ये असन्तोषः वर्धितः।
होटल–संघेन केन्द्र–सर्वकारं प्रति अस्मिन् विषये शीघ्रं कार्यवाहीं कर्तुम् आग्रहः कृतः। पत्रे लिखितं यत् केन्द्र–सर्वकारेण एतत् सुनिश्चितं कर्तव्यं यत् वाणिज्यिक–गैस–अनिलकोषान् विना कस्यचित् बाधा: उपलब्धा: स्युः तथा च होटल–संस्था: प्रति नियमिततया तेषां आपूर्तिः क्रियेत।
उल्लेखनीयम् अस्ति यत् प्रतिमासस्य आरम्भे गैस–अनिलकोषानां मूल्यं निर्धार्यते। अस्मिन् मासे १ मार्च–दिनाङ्के १९ किलोग्राम–भारयुक्तस्य वाणिज्यिक–गैस–अनिलकोषस्य मूल्ये वृद्धिः कृता। २८ फरवरीमास २०२६ पर्यन्तं यः अनिलकोष: १८९९ रूप्यकाणि विक्रीयते स्म, सः १ मार्च–दिनाङ्के २९.५० रूप्यकैः वर्धित्वा १९२९ रूप्यकाणि कृतः। ततः अनन्तरं सप्ताहस्य अन्तरे पुनः मूल्ये महती वृद्धिः अभवत्। ७ मार्च–दिनाङ्के वाणिज्यिक–अनिलकोषस्य मूल्यं ११४.५० रूप्यकैः वर्धित्वा २०४३ रूप्यकाणि अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता