Enter your Email Address to subscribe to our newsletters

रायपुरम् 11 मार्चमासः (हि.स.)।
नवारायपुरे स्थिते आदिमजातिअनुसन्धानप्रशिक्षणसंस्थानपरिसरे मार्चमासस्य त्रयोदश्यां चतुर्दश्यां च “आदिपर्वः परम्परातः परिचयपर्यन्तम्” इति भव्यः आयोजनः क्रियते। एषः आयोजनः आदिमजातिविभागेन आयोज्यते।
आदिमजातिविभागस्य अधिकारिणः अवदन् यत् जनजातीयसमाजस्य रचनात्मकता जीवनदर्शनं सांस्कृतिकविरासतां च मंचं दातुं राज्यसरकारेण जनजातीयकला संस्कृति परम्पराभ्यः समर्पितः आदिपर्व २०२६ इत्यस्य आयोजनं क्रियते।
अस्मिन् आयोजने आदिरङ्ग इत्यस्य माध्यमेन जनजातीयचित्रकाराणां कलाकृतीनां प्रदर्शनी भविष्यति। आदिपरिधान इत्यस्मिन् कार्यक्रमे जनजातीयवेशभूषायाः आधारिता आकर्षकप्रस्तुतयः दर्शिताः भविष्यन्ति। आदिआख्यान अन्तर्गतं जनजातीयविषयेषु परिसंवादाः (सेमिनाराः) अपि आयोजिताः भविष्यन्ति।
तथा आदिहाटे जनजातीयशिल्पकारैः निर्मितानि हस्तशिल्पानि पारम्परिकउत्पादाश्च प्रदर्श्यन्ते। अपि च जनजातीयसंस्कृतिपरम्पराभ्यां सम्बन्धिताः विविधाः सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते।
हिन्दुस्थान समाचार