Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 मार्चमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता बुधवासरे मुख्यमन्त्री-जनसेवा-सदने आयोजितायां जनसुनवाय्यां दिल्ली-निवासिभिः सह प्रत्यक्षसंवादं कृत्वा तेषां समस्याः शीघ्रं समाधातुं अधिकारिणः निर्देशितवती।
मुख्यमन्त्री सामाजिक-माध्यमे एक्स इति सञ्चारमाध्यमे प्रकाशिते सन्देशे अवदत् यत् जनानां वचनं श्रोतुं तेषां समस्यासमाधानं दातुं च सुशासनस्य मूलाधारः अस्ति। एषा एव दिल्ली-नगरस्य नवीना कार्यसंस्कृतिः अस्ति।
इदानीं नागरिकानां स्वसमस्यासमाधानार्थं दीर्घासु पङ्क्तिषु स्थित्वा प्रतीक्षा कर्तुं न आवश्यकं भविष्यति। सीएम-जनसुनवाई-पोर्टलस्य माध्यमेन जनाः अन्तर्जालेन स्वशिकायतां निबद्धुं शक्नुवन्ति तथा तस्याः प्रगतिं वास्तविककाले एव द्रष्टुं शक्नुवन्ति।
मुख्यमन्त्री उक्तवती यत् राजधानी-क्षेत्रे ७५ अधिकाः सेवाः अधुना सामान्य-सेवा-केन्द्रैः (सीएससी) माध्यमेन उपलब्धाः सन्ति, येन नागरिकानां कार्यार्थं कार्यालयानां परिभ्रमणं कर्तुं न आवश्यकं स्यात्, अपि तु स्वस्व-क्षेत्रे एव समाधानं लभ्यते।
सेवा, पारदर्शिता तथा जनभागीदारी इत्येतैः सङ्कल्पैः सह दिल्ली-नगरे सुशासनव्यवस्था निरन्तरं सुदृढा भवति।
-----------
हिन्दुस्थान समाचार