Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, ११ मार्चमासः (हि.स.)।मुख्यमन्त्री योगी द्विदिवसीय–प्रवासाय बुधवासरे बलरामपुरम् आगमिष्यति। स्वस्य प्रवासस्य कालावधौ सः जनपदे प्रचलमानानां विभिन्न–विकास–कार्याणां स्थलीय–निरीक्षणं करिष्यति तथा अधिकारिभिः सह समीक्षा–सभां कृत्वा प्रगतिविषये विवरणं ग्रहीष्यति। तेन सह सः प्रसिद्धे शक्तिपीठे देवीपाटन–मन्दिरे रात्रि–विश्रामं करिष्यति तथा अनन्तरदिने गुरुवासरे माता पाटेश्वरी–देव्याः पूजार्चनां कृत्वा इतः प्रस्थानं करिष्यति।
निर्धारित–कार्यक्रमानुसारं मुख्यमन्त्री बुधवासरे अपराह्णे ३:४५ वादने माता–पाटेश्वरी–विश्वविद्यालयम् आगमिष्यति। तत्र ३:४५ वादनात् ४:०० वादनपर्यन्तं निर्माणाधीनस्य विश्वविद्यालयस्य निरीक्षणं करिष्यति तथा निर्माण–कार्याणां प्रगतिं अवलोकयिष्यति। ततः सायं ४:०० वादने विश्वविद्यालय–परिसरात् प्रस्थानं करिष्यति।
मुख्यमन्त्री ४:०५ वादने चिकित्सा–महाविद्यालयं संयुक्त–चिकित्सालयं च आगमिष्यति, यत्र ४:०५ वादनात् ४:२० वादनपर्यन्तं तयोः व्यवस्थाः सुविधाः च निरीक्षणं करिष्यति। अनन्तरं ४:२० वादने चिकित्सामहाविद्यालयात् प्रस्थानं कृत्वा ४:२५ वादने कलेक्ट्रेट–परिसरम् आगमिष्यति। कलेक्ट्रेटपरिषरे ४:३० वादनात् ५:२० वादनपर्यन्तं जनपदस्य विकास–कार्याणां विधि–व्यवस्थायाः च विषये समीक्षा–सभां करिष्यति। अस्मिन् समये सम्बन्धित–विभागानां अधिकारिणः विभिन्न–योजनानां प्रगतिविषये मुख्यमन्त्रिणं अवगतं करिष्यन्ति तथा आवश्यक–निर्देशान् प्राप्स्यन्ति।
समीक्षा–सभायाः अनन्तरं मुख्यमन्त्री ५:२० वादने कलेक्ट्रेटपरिसरात् प्रस्थानं कृत्वा ५:३० वादने पुलिस–लाइन–स्थितं हैलीविमानपत्तनं प्राप्स्यति। तस्मात् ५:३५ वादने राजकीय–हेलीकॉप्टरविमाननेन ५:४५ वादने तुलसीपुर–स्थितं माता–पाटेश्वरी–विद्यालय–हेलीविमानपत्तनं प्राप्स्यति। ततः ५:५० वादने वाहनेन देवीपाटन–मन्दिरं प्रति प्रस्थानं कृत्वा ५:५५ वादने मन्दिर–परिसरम् आगमिष्यति।
मुख्यमन्त्री देवीपाटन–मन्दिर–परिसरे रात्रि–विश्रामं करिष्यति। अनन्तरदिने १२ मार्चे गुरुवासरे प्रातः माता–पाटेश्वरी–देव्याः पूजा–अर्चनां कृत्वा प्रातः ९:३० वादने मन्दिरात् हेलीविमानपत्तनं प्रति प्रस्थानं करिष्यति तथा ९:३५ वादने हेलीविमानपत्तनात् राजकीय–हेलीकॉप्टरविमानेन स्वस्य अग्रिम–गन्तव्यं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता